Table of Contents

<<3-2-4 —- 3-2-6>>

3-2-5 तुन्दशोकयोः परिमृजापनुदोः

प्रथमावृत्तिः

TBD.

काशिका

तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोः धात्वोः कप्रत्ययो भवति। तुन्दपरिमृज आस्ते। शोकापनुदः पुत्रो जातः। आलस्य सुखाहरणयोः इति वक्तव्यम्। अलसस् तुन्दप्रिमृज उच्यते। तुन्दपरिमार्जः एव अन्यः। सुखस्य अहर्ता शोकापनुदः। शोकापनोदः एव अन्यः। कप्रकरणो मूलविभुजादिभ्यः उपसङ्ख्यानम्। मूलानि विभुजादिभ्यः उपसङ्ख्यानम्। मूलानि विभुजति इति मूलविभुजो रथः। नखमुचानि धनूंषि। काकनुहस्तिलाः। कौ मोदते कुमुदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

735 तुन्दशोकयोः। तुन्दशोकयोरिति सप्तमी। परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी। तदाह– उपपदयोराभ्यामिति। तुन्दपरिमृज इति। तुन्दम् = उदरम्। अत्र `मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः। मूलानि विभुजतीति। विमर्दयतीत्यर्थः। `भुजो कौटिल्ये' तुदादिः। इहोपसर्गबलादन्मर्दने वृत्तिः। महीध्र इति। महीं धरतीति विग्रहः। कित्त्वान्न गुणः। ऋकारस्य यण् रेफः। अणि तु `महीधार' इति स्यात्। कुध्र इति। कुः = पृथ्वी, तां धरतीति विग्रहः। गिल इति। `गृ? निगरणे' अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम्। `अचि विभाषे'ति लत्वम्।

तत्त्वबोधिनी

614 तुन्दपरिमृज इति। अत्र `मृजेरजादा'विति वैकल्पिकी वृद्धिव्र्यवस्थितविभाषा नेत्येके। स्यादेवेत्यन्ये। मूलविभुजादिभ्यु इति। तादर्थ्ये एषा चतुर्थी। मूलविभुजादिसिद्ध्यर्थमित्यर्थः।

Satishji's सूत्र-सूचिः

वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः

Video

The affix “क” may be used to derive forms such as “मूलविभुज”।

उदाहरणम् – मूलानि विभुजतीति मूलविभुज: (रथः) derived from √भुज् (भुजोँ कौटिल्ये # ७. १७) – with the उपसर्ग: “वि” – in composition with “मूल”।

मूल + आम् (ref: 2-3-65) + वि भुज् + क by the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः
= मूल आम् + वि भुज् + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-86
= मूल आम् + विभुज

Now we form the compound between “मूल + आम्” (which is the उपपदम्) and “वि भुज” using the सूत्रम् 2-2-19. Note: Here “मूल + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43.
In the compound, “मूल + आम्” is placed in the prior position as per 2-2-30.
“मूल आम् + विभुज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= मूलविभुज 2-4-71