Table of Contents

<<7-1-38 —- 7-1-40>>

7-1-39 सुपां सुलुक्पूर्वसवर्नाऽआच्छेयाडाड्यायाजालः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याचालित्येते आदेशाः भवन्ति। सु अनृक्षरा ऋजवः सन्तु पन्थाः। पन्थानः इति प्राप्ते। सुपां सुपो भवन्ति इति वक्तव्यम्। धुरि दक्षिणायाः। दक्षिणायाम् इति प्राप्ते। तिङां तिङो भवन्दि इति वक्तव्यम्। चषालं ये अश्वयूपाय तक्षति। तक्षन्ति इति प्राप्ते। लुक् आर्द्रे चर्मन्। रोहिते चर्मन्। चर्मणि इति प्राप्ते। हविर्धाने यत् सन्वन्ति तत्सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीः इति प्राप्ते। पूर्वसवर्णः धीती। मती। सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। आ द्वा यन्तारा। द्वौ यन्तारौ इति प्राप्ते। आत् न ताद् ब्राह्मणाद् निन्दामि। तान् ब्राह्मणानिति प्राप्ते। शे न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। यूयं वयम् इति प्राप्ते। युयादेशो वयादेशश्च छन्दसत्वान् न भवति। या उरुया। धृष्णुया। उरुणा, धृष्णुना इति प्राप्ते। डा नाभा पृथिव्याम्। नाभौ पृथिव्याम् इति प्राप्ते। ड्या अनुष्टुयोच्च्यावयतात्। अनुष्टुभा इति प्राप्ते। याच् साधुया। साधु इति सोर्लुकि प्राप्ते। आल् वसन्ता यजेत। वसन्ते इति प्राप्ते। इयाडियाजीकाराणाम् उपसङ्ख्यानम्। इया उर्विया परि ख्यन्। दार्विया परिज्मन्। उरुणा, दारुणा इति प्राप्ते। डियाच् सुक्षेत्रिया सुगातुया। सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते। ईकारः दृतिं न शुष्कं सरसी शयानम्। सरसि शयानम् इति प्राप्ते। आङयाजयारां च उपसङ्ख्यानम्। आङ् प्र बाहवा। प्रवहुना इति प्राप्ते। अयाच् स्वप्नया सचसे जनम्। स्वप्नेन इति प्राप्ते। अयार् स नः सिन्धुमिव नावया। नावा इति प्राप्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.