Table of Contents

<<1-1-68 —- 1-1-70>>

1-1-69 अणुदित् सवर्णस्य चाप्रत्ययः

प्रथमावृत्तिः

TBD.

काशिका

परेण णकारेण प्रत्याहारग्रहणम्। अण् गृह्यमाण उदिच् च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा। आद् गुणः 6-1-87, अस्य च्वौ 7-4-32, यस्यैइति च 6-4-148। स्वरानुनासिक्यकालभिन्नस्य ग्रहनं भवति। उदित् खल्वपि। चुटू 1-3-7, लशक्वतद्धिते 1-3-8। चवर्गटवर्गयोः कवर्गस्य च ग्रहनम् भवति। अप्रत्ययः इति किम्? सनाशंसभिक्ष उः 3-2-168, अ साम्प्रतिके 4-3-9, दीर्घो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

11 प्रतीयते विधीयत इति प्रत्ययः. अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्. अत्रैवाण् परेण णकारेण. कु चु टु तु पु एते उदितः. तदेवम् - अ इत्यष्टादशानां संज्ञा. तथेकारोकारौ. ऋकारस्त्रिंशतः. एवं ऌकारोऽपि. एचो द्वादशानाम्. अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा.

सिद्धान्तकौमुदी

<< 1-1-101-1-70 >>
१४ प्रतीयते विधीयत इति प्रत्ययः, अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण्परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं ऌकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथ सावर्ण्म् । ’ऐऔच्’ इति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञा स्युरिति नापादनीयम् । ’नाज्झलौ’ (सू १३ 1-1-10) इति सावर्ण्यनिषेधो यद्यप्याक्रसमाम्नायिकानामेव, तथापि हकारस्याकारो न सवर्णः । तत्राकारस्यापि प्रश्लिष्टत्वात् । तेन ’विश्वपाभिः’ इत्यत्र ’हो ढ’ (सू ३२४ 8-2-31 इति ढत्वं न भवति । अनुनासिकानुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥

बालमनोरमा

16 अणुदित्सवर्णस्य। प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे `त्यदादीनामः' `इदमैश्' इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे– प्रतीयत इति । उत् इत् यस्य सः उदित=कु चु टु तु पु इत्यादिः। चकारात्स्वं रूपमित्यतः स्वमित्यनुवर्तते। तच्च षष्ट\उfffद्न्ततया विपरिणम्यते। तदाह-अविधीयमान इत्यादिना। अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति। अस्मिन्नेव सूत्रे अण् परेण णकारेण, इतरत्र तु `अणोऽप्रगृह्रस्ये'त्यादौ पूर्वेणैवेत्यर्थः। अत्र च आचार्यपारंपर्यौपदेशरूपं व्याख्यानमेव शरणम्। एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिदीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वातेषु परेषु इकारस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम्। अणुदित्सूत्रस्य फलमाह–तदेवमिति । तत्=अणुदित्सूत्रम्। एवं=वक्ष्यमाणप्रकारेण फलतीत्यर्थः। तिं?रशत इति। ऋलृवर्णयोर्मिथः। सवर्णतया ऋकारेण स्वाष्टादशभेदानाम्लृकारीयद्वादशभेदानां च ग्रहणादिति भावः। एवम्लृकारोऽपीति। ऋकारस्यापि लृकारसवर्णत्वादिति भावः। नन्वेकारेण ऐकारप्रपञ्चोऽपि गृह्रते, ऐकारेण एकारप्रपञ्चश्च। तथा ओकारेण औकारप्रपञ्चो गृह्रेत, औकारेण ओकारप्रपञ्चश्च। ततस्च एचश्चतुवशतेः संज्ञा स्युरित्येवं वक्तव्यं नतु द्वादशानामित्यत आह–एदेतोरिति । कुतो न सावण्र्यमित्यत आह–ऐऔजिति । यदि ह्रेदैतोः ओदौतोश्च परस्परं सावण्र्यं स्यात्तर्हि एकारेण ऐकारप्रपञ्चस्य, ओकारेण औकारप्रपञ्चस्य च अकारादिभिदीर्घप्लुतानामिव ग्रहणसम्भवात् `ऐऔ'जिति सूत्रं नारभ्येत। आरभ्यते च (सूत्रकृता)। अत एदैतोरोदौतोश्च न परस्परं सावण्र्यमिति विज्ञायत इत्यर्थः। अच् इच् एच् इत्यादि प्रत्याहारास्तु ङकारेणैव निर्वाह्राः। नच `एचोऽयवायाव' इत्यत्र यथासंख्यार्थमैऔजिति सूत्रमस्त्विति वाच्यम्। तत्र स्थानेऽन्तरतमः' इति सूत्रेणैव निर्वाहस्य वक्ष्यमाणत्वादिति भावः। वस्तुतस्तु `ऐऔ'जिति सूत्राऽभावे `वृद्धिरादैच्' `न त्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्' `प्लुतावैच् इदुतौ' इत्यादौ एङ्ग्रहणापत्तौ एदोतोरपि ग्रहणे प्रसक्ते तन्निवृत्त्यर्थमैच्प्रत्याहार आवश्यक इति तदर्थमैऔजित्यारम्भणमीयमेव। अत ऐऔजिति सूत्रारम्भस्य चरितार्थत्वादेदैतोरोदौतोश्च मिथऋ सावण्र्याऽभावसाधकत्वकथनमनुपपन्नमेव। एदैतोरोदौतोश्च मिथः सावण्र्याभावस्तु वृद्दिरादैजित्यादौ क्वचिदैज्ग्रहणात् `अदेङ्गुणः' इत्यादौ क्वचिदेङ्ग्रहणाच्च सुनिर्वाहः। अन्यथा सर्वत्र एङ्?ग्रहणमेव ऐज्ग्रहणमेव वा कुर्यात्। तावतैव चतुर्णां ग्रहणसम्भवात्। अत ऐच् एङिति प्रत्याहारद्वयग्रहणसामथ्र्यादेदैतोरोदौतोश्च न मिथः सावण्र्यम्। `प्लुतावैच इदुतौ' `एचोऽप्रगृस्ये'ति प्रत्याहारद्वयग्रहणवैयथ्र्याच्चेति शब्देन्दुशेखरे प्रपञ्चितम्। तेनेति। एदैतौरोदौतोश्च मिथस्सावण्र्याभावेनेत्यर्थः। नापादनीयमिति । नाशङ्कनीयमित्यर्थः। एवं च एकारेण सह वर्तत इति सैः, हे सैरित्यत्र `एङ्?ह्यस्वात्' इति संबुद्धिलोपो न। ग्लावं ग्लाव इत्यत्र `औतोऽम्शसोः' इत्यात्वं च न। स्यादेतत्। हकारस्य आकारस्य च सवर्णसंज्ञा स्यात् , स्थानप्रयत्नसाम्यात्, अज्झलामेव सावण्र्यनिषेधात्, वार्णसमाम्नायिकानामेन वर्णानामज्झलशब्दवाच्यत्वात्, आकारप्रश्लेषे च प्रमाणाऽभावात्। न चाकारस्याच्त्वात्तेन आकारस्यापि अणौदित्सूत्रेण ग्रहणादाकारहकारयोर्न सावण्र्यमिति वाच्यं, ग्रहणकसूत्रे हि लब्धात्मकमेव सत् `अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति। नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रं न लब्धात्मकम्। तद्धि सवर्णपदघटितं, सवर्णपदार्थावगमोत्तरम#एव लब्धात्मकम्। सवर्णसंज्ञाविधायकं च तुस्यास्यसूत्रं सामान्यतः त्वर्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्तत्रैव पर्यवसन्नं स्वकार्यक्षमम्। तदुक्तम्–`प्रकल्प्यपवादविषयमुत्सर्गोऽभिनिविशते' इति। उक्तं च भाष्ये-वर्णानामुपदेशस्तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल आदिरन्त्येनेति प्रत्याहारः, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, तदुत्तरकालमणुदित्सूत्रमित्येतेन समुदितेन वाक्येनात्यत्र सवर्णानां ग्रहणं भवती'ति। अन्यत्र=`अस्य च्वौ' इत्यादावित्यर्थः। अत्र भाष्ये `प्रत्याहारोत्तरकाला सवर्णसंज्ञे'त्यनेन नाज्झलाविति निषेधसहितः सावण्र्यविधिर्विवक्षितः , केवलसावण्र्यविधेः प्रत्याहारानपेक्षत्वेन प्रत्याहारोत्तरकालिकत्वनियमाऽसम्भवात्। तथा चाणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकत्वात्तेन नाज्झलावित्यत्र अज्ग्रहणेन सवर्णानां ग्रहणाऽभावात्सावण्र्यविधिनिषेधाभावादकारहकारयोः सावण्र्यं स्यादिति शङ्कते– नाज्झलाविति सावण्र्येत्यादिना। यद्यपीति सम्भावनायाम्। अक्षरसमाम्नायः=चतुर्दशसूत्री। तत्र भवा आक्षरसमाम्नायिकाः। `बह्वचोऽन्तोदात्तात्' इति ठञ्। न च नाज्झलविति प्रवृत्तिदशायामणुदित्सूत्रप्रवृत्त्यभावेऽपि तत्र अजित्यनेन लक्षणया दीर्घप्लुतानां ग्रहणमस्तु प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाया अनुपदमेव प्रपञ्चितत्वादिति वाच्यम्। स्ववाच्यवाच्येषु हि प्रत्याहाराणां लक्षणा, न चात्राच्छब्दवाच्याकारादिवाच्यता दीर्घप्लुतानामस्ति। अमुदित्सूत्रस्येदानीमप्रवृत्तेरिति भावः। परिहरति–तथापीति। वार्णसमाम्नायिकानामेव नाज्झलाविति निषेध इत्यभ्युपगमेऽपि हकारस्य आकारो न सवर्ण इत्यर्थः। कुत इत्यत आह–तत्रापीति। अपिशब्दो व्युत्क्रमः। तत्र=नाज्झलाविति सूत्रे, आसहितोऽच् आचित्याकारस्यापि सवर्णदीर्घेण प्रश्लिष्टत्वादित्यर्थः। तत्प्रतिषेधार्थेन आकारप्रश्लेषेणेत्यत आह–तेनेति। तेन=हकारस्य आकारस्य च सावण्र्यप्रतिषेधेन, हकारेण आकारस्य ग्रहणाऽभावाद्वि\उfffदापाभिरित्यत्र `हो ढः' इति हकारस्य विधीयमानं ढत्वं पकारादाकारस्य न भवति। आकारप्रश्लेषाऽभावे तु, तस्य हकारस्य च सावण्र्यसत्वाद्धकारेण आकास्य च ग्रहणात्तस्य ढत्वं स्यादित्यर्थः। अत्र ढत्वस्यासिद्धत्वात्संयोगान्तलोप एवापादनीय #इति नवीनाः। `कालसमयवेलासु तुमुन्' इति सूत्रे वेलास्विति लकारादाकारस्य निर्देशो नाज्झलावित्यत्र आकारप्रश्लेषे प्रमाणम्। अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वाऽऽपत्तावाकारो न श्रूयेतेत्यलम्। ननु ग्रहणकसूत्रेऽज्ग्रहणमेव क्रियताम्, अणुदित्सवर्णस्येति किमण्ग्रहणेन, हयवरलानां सवर्णाऽभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह–अनुनासिकेति। तेनेति। उक्तद्वैविध्येन सवर्णत्वात्-अननुनासिकास्ते यवलाः प्रत्येकं द्वयोद्र्वयोः संज्ञाः। अनुनासिकास्तु यवला अननुनासिकानामपि न संज्ञाः, `भेदको गुणा' इत्याश्रयणात्, वर्णसमाम्नायेऽननुनासिकानामेव तेषां पाठाच्च। एवं च यवलसंग्रहार्थं ग्रहणकसूत्रेऽज्ग्रहणमपह#आय अण्ग्रहणमिति भावः।

तत्त्वबोधिनी

15 अविधीयमानोऽणिति। तेन इत इत्यत्र `इदम इश्' इति त्रिमात्र ईकारो न भवति। उदिच्चेति। इह `अविधीयमान' इति न संबध्यते, उदित्करणसामथ्र्यात्। तेन विधीयमानोऽप्युदित्सवर्णान्गृह्णात्येव,-`कुहोश्चुः' जगाद जघटे। परेण णकारेणेति। व्याख्यानतो विशेषप्रतिपत्तेः, `उपसर्गादृति' `ऋत उत्' इत्यादौ तपरकरणाल्लिङ्गाच्च। यदि पूर्वेण स्यात्तर्हि तपरत्वमिहानर्थकं स्यात्, ऋकारस्याऽनण्त्वेन सवर्णाऽग्राहकत्वात्। एवं च `तपरत्वाद्दीर्थे न, उप ऋकारीयति' इत्यादिवक्ष्यमाणग्रन्थोऽपि सङ्गच्छते। एवम्लृकारोऽपीति। `तिं?रशतः संज्ञे'त्यनुषज्यते। एतच्च न्यायसाम्यादुक्तम्। वस्तुत लृकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते। सूत्रारम्भसामथ्र्यादिति। सति तु सावण्र्ये एकारेण ऐकारग्रहणादोकारेण चौकारग्रहणात् `ऐऔच्' इति सूत्रारम्भो वृथा स्यादिति भावः। नापादनीयमिति। तेन ग्लावं ग्लाव इत्यत्र `औतोम्शसोः' इति न प्रवर्तत इति मूल एव स्फुटीभविष्यति। यद्यपीति। ग्रहणकशास्त्रस्याद्याप्यनिष्पत्तेरिति भावः। एतच्च `अकः सवर्णे दीर्घः' इत्यत्र व्युत्पादयिष्यामः। आक्षरेति। अक्षराणां समाम्नायः=उपदेशसूत्राणि। तत्र भवा आक्षरसमाम्नायिकाः। `बह्वचोऽन्तोदात्ताट्ठञ्' इति ठञ्। हो ढ इति ढत्वं न भवतीति। यद्यप्याकारप्रश्लेषाभावे संयोगान्तलोप एव प्राप्नोति नतु ढत्वं, तस्यासिद्धत्वात्, अतोऽत्र संयोगान्तलोपो न भवतीति वक्तुमुचितम्, तथापि `कार्यकालं संज्ञापरिभाषम्' इति पक्षे त्रैपादिकेऽन्तरङ्गे बहिरङ्गपरिभाषायाः प्रवृत्तेरन्तरङ्गे ढत्वे कर्तव्ये बहिरङ्गः संयोगान्तलोपोऽसिद्ध इति मत्वेदमुक्तमित्येके। अन्ये तु `संज्ञापूर्वको विधिरनित्यः' इति लोपस्य वारणं कथंचित्कर्तुं शक्यमित्याशयेन ढत्वं नेत्युक्तमित्याहुः। वि\उfffदापाभिरित्यत्रेत्युपलक्षणम्। वि\उfffदापाः वि\उfffदापाभ्यामित्यादावपि न भवति। `हो ढः' इत्युपलक्षणम्। `पृथगायु'रित्यादौ `झयो हः' इत्याकारस्य घकारो नेति दिक्। यदि तु `विवृतमूष्मणाम्' इत्यत्र `ईषत्स्पृष्टम्' इत्यत `ईष'दित्यनुवर्त्त्य `स्वराणां चे'त्यत्र निवर्त्त्य `ईषद्विवृतमूष्मणां, विवृतं स्वराणा'मिति प्रयत्नभेदो व्याख्यायते, तदा `नाज्झलौ' इति सूत्रं त्यक्तुं शक्यमित्याकरे स्थितम्। अनुनासिकास्ते इति। ये त्वाक्षरसमाम्नायिका अणस्त एव सवर्णानां संज्ञा भवन्तीति भावः। एवंच रेफो हकारश्च अण्प्रत्यागारान्तर्गतोऽपि न क्सयचित्संज्ञा, तत्सवर्णस्यान्यस्याऽभावादित्यवगन्तव्यम्।

Satishji's सूत्र-सूचिः

TBD.