Table of Contents

<<1-1-69 —- 1-1-71>>

1-1-70 तपरस्तत्कालस्य

प्रथमावृत्तिः

TBD.

काशिका

तः परो यस्मात् सो ऽयं तपरः, तादपि परः तपरः। तप्रो वर्णस् तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य। विद्ःयर्थम् इदम्। अणिति न अनुवर्तते। अणामन्येषां च तपराणाम् इदम् एव ग्रहणकशास्त्रम्। अतो भिस ऐस् 7-1-9 इत्येवम् आदिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव। अतपरा अणस्तस्य अवकाशः। किम् उदाहरणम्? अतो भिस ऐस् 7-1-9 वृक्षैः। प्लक्षैः। विड्वनोरनुनासिकस्य आत् 6-4-41 अब्जाह्, गोजाः। तत्कालस्य इति किम्? खट्वाभिः। मालाभिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

26 तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्..

सिद्धान्तकौमुदी

<< 1-1-691-1-1 >>
१५ तः परो यस्मात् सः, तात्परश्च, उच्चार्य्यमाणसमकालस्यैव संज्ञा स्यात् । तेन 'अत्' 'इत्' 'उत्' इत्यादयः षण्णां षण्णां संज्ञा । 'ऋत्' इति द्वादशानाम् ॥

बालमनोरमा

17 ग्रहणकसूत्रेऽण्सवर्णानां ग्राहक इति स्थितम्। एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते– तपरस्तत्कालस्य। `तपर' इत्यावर्तते। प्रथमस्तावत्तपरशब्दः-तः परो यस्मादिति बहुव्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः। ग्रहणकसूत्रादणित्यनुवर्तते। तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। ऊकालः उष्ट्रमुख इत्यादिवत् समासः। एवं च `अत्'`इत्' इत्याद्यात्मकोऽण् तपरत्वेन उच्चार्यमाणः स्वीयकालसदृशकालस्य संज्ञा स्यादित्यर्थः। तत्र अत् इत् उत् ऋत् इत्येतेषां तपराणां ह्यस्वाकारादीनामणां तत्तत्कालास्तत्तद्ध्रस्वप्रपञ्चाः। एत्, ऐत्, ओत्,औत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालास्तत्तद्दीर्घप्रपञ्चाः। तत्र ह्यस्वाकारादीनां तपराणां तत्तद्ध्रस्वप्रपञ्चावाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् `सिद्धे सत्यारम्भो नियमार्थः' इति न्यायेन सूत्रमिदं नियमार्थं सम्पद्यते–`अण् तपरश्चेत्तत्कालस्यैव सवर्णस्य ग्राहको न त्वतत्कालस्ये'ति। एवं च अतत्कालनिवृत्त्यात्मकपरिसंख्यार्थंमिदं सूत्रम्। वैयाकरणस्तु परिसंख्याविधिमेव नियमविधिरिति व्यवहरन्ति। तदिदं सर्वमभिप्रेत्य व्याचष्टे–तः परोयस्मादित्यादिना। नियमविधानस्य फलमाह–तेनेत्यादिना। तेन=नियमविधानेन। आदिना लृदित्यादिसंग्रहः। अत्, इत्, उत्, लृत्, एत, ऐत्, ओत्, औत्–इत्येते अष्टौ तपरा अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः , न त्वतत्कालानामित्यर्थः। ऋदिति द्वादशानामिति। ऋलृवर्णयोरिति सावण्र्यविधानादिति भावः। नन्वेवम्लृदित्यपि द्वादशानां ग्रहणं स्यात्, तथा च `पुषादिद्युताद्य्?लृदितः' इत्यादिविधय ऋदित्सवपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लृकारप्रपञ्चस्य ग्रहणेऽपि क्वचित् लृदिद्ग्रहणबलेन लृ इत्यनेन ऋकारप्रपञ्चस्य ग्रहणाऽभावात्। अन्यथा `ऋतो ङी'त्यादौ क्वचित् ऋद्ग्रहणस्य पुषादिद्युताद्य्?लृदित इत्यादौ क्वचित् लृदिद्ग्रहणस्य च वैयथ्र्यापत्तेः। प्रथमातिक्रमणे कारणाऽभावेन सर्वत्र ऋदिद्ग्रहणस्यैव कर्तु शक्यत्वात्। इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम्, नतु लृदंपीति। अत्र च तः परो यस्मादिति बहुव्रीहेः-अत्, इत्, उत् इत्याद्युदाहरणम्। तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यैकार उदाहरणम्। आत् ईत् ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् , आकारादिषु हि तपरसूत्रमपूर्वविधानार्थम्, उत नियमार्थम् ?, नाद्यः, तपरसूत्रे अण्ग्रहणानुवृत्त्यभावेऽपि जातिपक्षे आकारादिभिर्दीर्घैः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्र्यर्थत्वात्। न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात्। एवं च आत्, ईदित्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चो ग्रहणकशास्त्रप्रपञ्चश्च।

तत्त्वबोधिनी

16 स च तापरश्चेति। तव्रादिना उभयं विवक्षितमिति भावः।

Satishji's सूत्र-सूचिः

TBD.