TBD.
सनिति सन्प्रत्ययान्तो गृह्यते न सनिर्धातुः, अनभिधानात् व्याप्तिन्यायाद् वा। सन्नन्तेभ्यो धातुभ्यः आशंसेर् भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति। चिकीर्षुः। जिहीर्षुः। आशंसुः। भिक्षुः। आङः शसि इच्छायाम् इत्यस्य ग्रहणं, न शंषेः स्तुत्यर्थस्य।
TBD.
843 चिकीर्षुः. आशंसुः. भिक्षुः..
950 सनाशंस। सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम्। `स'निति सन्प्रत्ययान्तं गृह्रते। `षणु दाने', `षण संभक्तौ' इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात्। एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः। आशंसुरिति। `आङः शसि इच्छाया'मित्यस्मादुः।
780 सनाशंस। `स'निति प्रत्ययग्रहणात्तदन्तग्रहणम्। षणु दाने, षण संभक्ताविति धात्वोस्तु नेह ग्रहणं, गर्गादिषु विजिगीषुशब्दस्य पाठात्। आशंसेत्याङः शसि इच्छायामित्ययं गृह्रते, न शंसु स्तुताविति, आङा सह निर्देशात्।
वृत्तिः सन्नन्तेभ्यो धातुभ्य आशंसेर्भिक्षेश्च उः प्रत्ययो भवति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु । The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
उदाहरणम् – जिगमिषुः derived from the सन्नन्त-धातुः “जिगमिष”।
जिगमिष + उ 3-2-168, “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114
= जिगमिष् + उ 6-4-48 = जिगमिषु
Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “जिगमिषु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “जिगमिषु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.