Table of Contents

<<4-3-8 —- 4-3-10>>

4-3-9 अ साम्प्रतिके

प्रथमावृत्तिः

TBD.

काशिका

अकारः प्रत्ययो भवति मध्यशब्दात् साम्प्रतिके जातादौ प्रत्ययार्थे। मस्य अपवादः। साम्प्रतिकं न्याय्यं, युक्तम् उचितं, सममुच्यते। नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम्। नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः। मध्या स्त्री।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1359 अ सांप्रतिके। `अ' इति लुप्तप्रथमाकम्। मध्यादित्यनुवर्तते। तदाह– मध्यशब्दादित्यादि। `संप्रती'त्यव्ययम् उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये `अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथवा एष सम्प्रतियज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात्। पञ्चरात्रो न न्यूनः नाप्यतिरिक्तः, सम इत्यर्थः। सम्प्रतिशब्दात्स्वार्थे विनयादित्वाट्ठकि साम्प्रतिकम्। प्रज्ञादित्वात्स्वार्थ अणि तु साम्प्रतमित्यपि भवति। `एतर्हि सम्प्रती'ति कोशादिदानीमित्यर्थेऽपि। प्रकृते तु साम्यं विवक्षितम्।

तत्त्वबोधिनी

1070 अ सांप्रतिके। `सप्रती'त्यव्ययं न्याय्ये वर्तते, `अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष संप्रति यज्ञो यत्पञ्चरात्रः'इत्यत्र तथा दर्शनात्। न न्यूनो नातिरिक्तः—सम इत्यर्थः। इदानीमित्यर्थे तु प्रसिद्धमेव, `एतर्हि संप्रतीदानीम्'इत्यमरात्। ततः प्रज्ञादित्वात्स्वार्थेऽण्, विनयादित्वात्स्वार्थे ठगपि। तेन सांप्रतं सांप्रतिकमिति पर्यायौ। उत्कर्षेत्यादि। न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्रते इति भावः।

Satishji's सूत्र-सूचिः

TBD.