Table of Contents

<<6-4-147 —- 6-4-149>>

6-4-148 यस्य इति च

प्रथमावृत्तिः

TBD.

काशिका

इवर्णान्तस्य अवर्णातस्य च भस्य ईकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्य ईकारे दाक्षी। प्लाक्षी। सखी। सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते दुलि दौलेयः। वलि वालेयः। अत्रि आत्रेयः। अवर्णान्तस्य ईकारे कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः। यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः। काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे कृते यस्य इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः 6-4-149 इति च लोपः प्राप्नोति। इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन। वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः। चतुष्पाद्भ्यो डञ् 4-1-135 इति ढञ्प्रत्ययः। लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

237 कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः. इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः). ज्ञाने..

बालमनोरमा

309 यस्येति च। यस्य-ईतीति छेदः। इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः। `भस्ये'त्यधिकृतम्। `नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते। तदाह–भस्येत्यादिना। इत्यकारलोपे प्राप्ते इति। `सुडनपुंसकस्ये'ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः।\र्\नौङ श्यामिति। औङो यः श्यादेशस्तस्मिन् परतो `यस्येति चे'ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः। श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम्। `औङ्' इति तु व्यर्थमेव। `सर्वे' इत्यादौ `जसः शी'त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः। ज्ञाने इति। ज्ञान ई इति स्थिते आद्गुण इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

148) वार्त्तिकम् (under 6-4-148) – औङः श्यां प्रतिषेधो वाच्यः

यस्येति च 6-4-148 does not apply when the following term is शी that has come as an आदेश: in place of the affix औ or औट्.

उदाहरणम् –

ज्ञान + औ = ज्ञान + शी 7-1-19 = ज्ञान + ई 1-3-8 = ज्ञाने 6-1-87 – The अकार-लोपः that was to happen by 6-4-148 is stopped by this वार्त्तिकम्