Table of Contents

<<7-4-31 —- 7-4-33>>

7-4-32 अस्य च्वौ

प्रथमावृत्तिः

TBD.

काशिका

ई इति वर्तते। अचर्णान्तस्य अङ्गस्य च्वौ परतः ईकारादेशो भवति। शुक्लीभवति। शुक्लीस्यात्। खट्वीकरोति। खट्वीस्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अस्य च्वौ। ईत्स्यादिति। `ई ध्राध्मो'रित्यतस्तनुवृत्तेरिति भावः। वेर्लोप इति। `वैरपृक्तस्ये'त्यनेन'ति शेषः। च्व्यन्तत्वादव्ययत्वमिति। `ऊर्यादिच्विडाचश्चेति'निपातत्वात्स्वरादिनिपातमित्यव्ययत्वमित्यर्थः। `तद्धितश्चासर्वविभक्ति'रित्यत्र `शस्प्रभृतयः प्राक्समासान्तेभ्यः' इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित्। कृञ्योगे उदाहरति–कृष्ण इति। वस्तुतोऽकृष्णः सन्वेषादिना कृष्णभावे प्राप्नोतीत्यर्थः। तं करोतीति। अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः। कृष्णीकरोतीति। अत्र वस्तुतोऽकृष्णो नटः प्रकृतिभूतः। स तावत्कृष्णभावं विकारं प्राप्नुवन्सम्पद्यमानत्वात्सम्पद्यकर्तां भवतीति तत्राऽभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः। तस्माच्च्विप्रत्ययः। चकार इत्, उकार उच्चारणार्थः। तस्मिन्परे अकारस्य ईत्त्वम्। `वेरपृक्तस्ये'ति वकारलोपः। `कृष्णी'ति ईकारान्तमव्ययम्। ब्राहृईभवतीति। अब्राहृ ब्राहृ संपद्यमानं भवतीत्यर्थः। ब्राहृन्शब्दाच्च्विः। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः। ईत्वमिति भावः। अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिर्नतु सुबन्तादिति न#इयमः। अतो न च्वेः प्रातिपदिकादुत्पत्तिः,किंतु सुबन्तादेवेति बोध्यम्। अत एव अगौर्गोः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्य `एङः पदान्ता'दिति पररूपमुदाह्मतं भाष्ये सङ्गच्छत इत्यलम्। गङ्गी स्यादिति। अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः। `अस्य च्वौ' इति ईत्त्वम्। दोषाभूतमहरिति। दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते। इह तु रात्रिरित्यर्थः वत्र्तते। अदोषाभूतमहो बहुलमेघावरणान्धकाराद्दोषाभूतमित्यर्थः। दिवाभूतारात्रिरिति। दिवेत्याकारान्तमव्ययमहनीत्यर्थे इह तु अहरित्यर्थे वर्तते। चन्द्रिकातिशयवशादहर्भूतेत्यर्थः। ननु `अव्ययस्य च्वावीत्त्वं ने'ति वार्तिकम् `अस्य च्वौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह–एतच्चेति।

तत्त्वबोधिनी

1576 सम्पद्यकर्तरीति। सम्पद्यश्चासौकर्ता चेति विग्रहः। `पाघ्राध्माधेट्दृशः शः'इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति। दिवादित्वाच्छ्यनिति हरदत्तः। वक्तव्यमिति। वृत्तिकारस्तु `अभूततद्भावे'इति सूत्रमध्ये प्चिक्षेप। भ्रान्तत्वादिति।\र्\नव्ययस्य च्वावीत्वं नेति वाच्यम्। च्व्यन्तत्वादिति। तस्य निपातत्वात् `स्वारादिनिपातमव्यय'मित्यनेनेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.