Table of Contents

<<1-1-67 —- 1-1-69>>

1-1-68 स्वं रूपं शब्दस्य अशब्दसंज्ञा

प्रथमावृत्तिः

TBD.

काशिका

शास्त्रे स्वम् एव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्यो ऽर्थः, शब्दसंज्ञां वर्जयित्वा। शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात् तद्वाचिनाम् शब्दानाम् सम्प्रत्ययो मा भूतिति सूत्रम् इदम् आरभ्यते। अग्नेर् ढक् 4-2-33 आग्नेयम् अष्टाकपालं निर्वपेत्। अग्निशब्दो ऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः, पावकः, धूमकेतुः इति। न अतः प्रत्ययो भवति। उदश्वितो ऽन्यतरस्याम् 4-2-19औदश्वित्कम्। औदश्वितम्। तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति। अशब्दसंज्ञा इति किम्? दाधा घ्वदाप् 1-1-20 तरप्तमपौ घः 1-1-23, घुग्रहणेषु घग्रहनेषु च संज्ञिनां ग्रहनम्, न संज्ञायाः। सित्तद्विशेषाणां वृक्षाद्यर्थम्। सिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तद्विशेषाणां ग्रहणं भवति इति। किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु. शकुन्यश्ववडवपूर्वापराधरोत्तराणाम् 2-4-12 इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। पित्पर्यायवचनस्य च स्वाऽद्यर्थम्। पिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां च इति। किं प्रयोजनम्? स्वाऽद्यर्थम्। स्वे पुशः 3-4-40। स्वपोषं पुष्टः। रैपोशम्। धनपोशम्। अश्वपोषम्। गोपोशम्। जित्पर्यायवचनस्यैव राजाऽद्यर्थम्। जिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्यैव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्विशेषाणाम्। किं प्रयोजनम्? राजाऽद्यर्थम्। सभा राजा अमनुष्यपूर्वा 2-4-23 इनसभम्। ईश्वरसभम्। तस्यैव न भवतिराजसभा। तद्विशेषाणां च न भवति पुष्यमित्रसभा। चन्द्रगुप्तसभा। झैत्तद्विशेषाणां च मत्स्याऽद्यर्थम्। झिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तस्य च ग्रहणं भवति तद्विशषाणां च इति। किं प्रयोजनम्? मत्स्याऽद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति 4-4-35 इति ठक्पाक्षिकः। मात्सियकः। तद्विशेषाणाम् शाकुनिकः। पर्यायाणां न भवतिअजिह्मान् हन्ति, अनिमिषान् हन्ति इति। अथैकस्यैश्यते, मीनान्, हन्ति इति मैनिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

<< 1-1-441-1-72 >>
२५॰ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना॥

बालमनोरमा

27 `अग्नेर्ढक्'`वाय्वृतुपित्रुषसो यत्' `राज्ञो य'दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते–स्वं रूपम्। `अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि। शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम' इत्यर्थः। तदाह–शब्दस्य स्व रूपं संज्ञीति। बोध्यमित्यर्थः। न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्, `उपसर्ग घोः कि'रित्यत्र `घु शब्दे' इति घुधातुनिवृत्त्यर्थत्वात् `दाधा ध्वदाप्' इति संज्ञाकरणस्य `घुमास्थागापाजहातिसां हलि' इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः। इदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्वबोधिनी

24 स्वं रूपं शब्दस्य। `अग्नेर्ढक्'। आग्नेयम्। `आङो यमहनः'। आयच्छते, आहते। इह- अग्नि, आङ्, यम्, हन्, -एते एव संज्ञिनः। नन्वग्न्यादिवाच्यादङ्गारादेर्ढगादिप्रत्ययो न संभवतीति स्वरूपादेव स्यात्, `प्रातिपदिका'दित्याद्यधिकाराच्च किमनेन सूत्रेणेति चेत् ?, सत्यम्। अग्न्यादिशब्दपर्यायेभ्योवह्वयादिभ्यो मा भूदिति सूत्रस्याऽस्यारम्भः। नन्वत्र रूपग्रहणं विनापि स्वशब्देन रूपमेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च। अर्थो हि प्रतीतौ संबन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणः , पदज्ञानजन्यवोधविषयत्वाद्बहिरङ्गः, अनुकरणदशायामप्रतीतेरनियतोपस्थितिकश्चेति किमनेन रूपग्रहणेन ?।\र्\नुच्यते-`इह शास्त्रे अर्थोऽपि विवक्षितो रूपव'दिति ज्ञापनार्थं रूपग्रहणम्। तेन `अर्थवद्ग्रहणे नानर्थकस्ये'त्युपपन्नं भवति। तत्रोक्ताज्ञापकादर्थो ग्राह्रः, `स्व'मिति वचनात्स्वं रूपं चेति सामथ्र्यादर्थवतो रूपस्य ग्रहणम्। तेन `काशे' `कुशे' इत्यत्र `शे' इत्ययं प्रगृह्रसंज्ञो न भवति। `प्रादूहोढेइत्यत्र तु `ऊढग्रहणेन क्तान्तमेव गृह्रते नतु क्तवत्वन्तस्यैकदेशः' इत्यन्यत्र विस्तरः। अशब्दसंज्ञेति किम् ? उपसर्गे घोः किः'-दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थकान्मा भूत्। नच `दाधा घु' इति घुसंज्ञाकरणसामथ्र्यादेव दाधाभ्यः किः स्यादिति वाच्यम्, `घुमास्थे'त्यादिना आत ईत्त्वविधौ संज्ञाकरणस्यावश्यकतया सामर्थ्योपक्षयात्। इह (अ) शब्दस्य संज्ञा (अ) शब्दसंज्ञेति न षष्ठीसमासः, `कर्म' `करण'मित्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः, किंतु शब्दः-शब्दशास्त्रं, तत्र संज्ञा शब्दसंज्ञेति सप्तमीसमासस्तदाह–शब्दशास्त्रे या संज्ञेति।

Satishji's सूत्र-सूचिः

TBD.