Table of Contents

<<8-3-28 —- 8-3-30>>

8-3-29 डः सि ढुट्

प्रथमावृत्तिः

TBD.

काशिका

डकारन्तात् पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति। श्वलिट्त्साये, श्वलिट् साये। मधुलिट्त्साये, मधुलिट् साये। परादिकरणं न पदान्ताट् टोरनाम् 8-4-42 इति ष्टुत्वप्रतिषेधार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

86 डात्परस्य सस्य धुड्वा. षट्त्सन्तः, षट् सन्तः..

बालमनोरमा

131 ङः सि धुट्। `ड' इति पञ्चमी। ततश्च तस्मादित्युत्तरस्येति परिभाषया `सी'ति सप्तमी षष्ठी सम्पद्यते-डात्परस्य सस्येति। `हे मपरे वे'त्यतो वेत्यनुवर्तते। तदाह–डात्परस्येत्यादिना। `तस्मिन्निति निर्दिष्टे' इति नेह भवति, `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा'दिति न्यायात्। धुट् चतुर्थधकारनिर्देशः। टकार इत्। उकार उच्चारणार्थः। थुडिति द्वितीयविधौ तत्सामथ्र्याच्चत्वं न स्यात्। अन्यथा तकारमेव विदध्यात्। चतुर्थविधेस्तु न तत्सामथ्र्यम्, प्रथमविधौ तस्य चयो द्वितीया इत्यापत्तौ तन्निवृत्त्या चरितार्थत्वात्। षट् सन्त इति। षषिति षकारस्य जश्त्वेन डः, षड्-सन्त इति स्थिते चत्र्वस्यासिद्धत्वाड्डात्परत्वात्सस्य धुट् आद्यवयवः। तस्य चर्त्वेन तकारः। `चयो द्वितीया' इति तु नेह, चत्र्वस्यासिद्धत्वात्। ततो लक्ष्यभेदाड्डस्य चर्त्वेन टः।

तत्त्वबोधिनी

105 ङः सि धुट्। `उभयनिर्देशे पञ्चमीनिर्देशो वलीयान्परत्वा'दित्यभिप्रेत्याह– सस्येति। सीति सप्तमी निर्देशस्तु लाघवार्थः। षट्सन्त इति। धुटश्चर्त्वेन तकारः। `चयो द्वितीयाः–' इति तस्य थो न, चत्र्वस्याऽसिद्धत्वात्। अतएव धुडभावे `षट्सन्त' इत्यत्र टस्य ठो न भवति। नन्वेवमपि `ङः सि धु'गिति धुग्विधीयतां डकारस्य सकारे परे धु'गिति व्याख्यानसंभवात्किमनेन धुटः परादित्वाभ्युपगमेन ?। मैवम्। पूर्वान्तत्वे तु न पदान्ताट्टोरनामिति निषेधाप्रवृत्त्या धकारस्य ष्टुत्वप्रसङ्गात्। अतएव वक्ष्यमाणस्तुगिहैव न कृतः। डस्य तुकि ष्टुत्वे तस्याऽसिद्धत्वेन चयो द्वितीया इत्यस्यापि प्रसङ्गाच्च। इग धुड्विकल्पेन रूपद्वये सति टकारनकारविसर्गाणां द्वित्वविकल्पात्षोडश रूपाणि। खयः शर इति द्वित्वे द्वातिं?रशत् (32)। शरोऽचीति निषेधोऽत्र न प्रवर्तते। तस्य सौत्रद्वित्वमात्रविषयत्वस्योक्तत्वात्। न च चत्र्वस्यासिद्धत्वात्खयः परत्वमेव नास्तीति शङ्क्यम्। `पूर्वत्रासिद्धीयमद्वित्वे' इत्युक्तेः॥

Satishji's सूत्र-सूचिः

167) डः सि धुँट् 8-3-29

वृत्ति: डात् परस्य सस्य धुँड् वा। A सकारः following a डकारः gets the धुँट् augment optionally. [Note: परिभाषा - उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । Here ड: is पञ्चमी and सि is सप्तमी . Since पञ्चमी is has greater force, the सकार: takes the आगम: as per 1-1-67 तस्मादित्युत्तरस्य ]

उदाहरणम् – लिह् + सुप् 4-1-2 = लिड् + सु 1-3-3, 1-4-17, 8-2-31, 8-2-39 = लिड् + सु or लिड् + ध्सु 8-3-29, 1-3-2, 1-3-3, 1-1-46 – Example continued below.