TBD.
ङकारणकारयोः पदान्तयोः कुक् टुकित्येतावागमौ वा भवतः शरि परतः। प्राङ्क् शेते, प्राङ् शेते। प्राङ्क् षष्ठः, प्राङ् षष्ठः। प्राङ्क् साये, प्राङ् साये। णकारस्य वण्ट् शेते, वण् शेते। पूर्वन्तकरणं प्राङ्क् छेते इत्यत्र छन्त्वर्थम्। शश्छो ऽटि 8-4-63 इति हि पदन्ताज् झयः इति तद् विज्ञायते। इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन्। प्राङ्क् सायः इत्यत्र अपि सात् पदाद्योः 8-3-111 इति षत्वप्रतिषेधार्थं च। वण्ट् सायः इत्यत्र च न पदान्ताट् टोरनाम् 8-4-42 ष्टुत्वप्रतिषेधार्थम्।
TBD.
85 वा स्तः. (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्). प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः. सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः..
130 ङ्णोः। `हे मपरे वे'त्यतो वेत्यनुवर्तते। कुक् च टुक् चेति समाहारद्वन्द्वः। आगमाविति। एतच्च `आद्यन्तौ टकिता'विति लभ्यम्। यतासङ्ख्यपरिभाषया च ङकारस्य कुक्, णकारस्य टुक्। उभयत्र ककार इत्ष उकार उच्चारणार्थः। `प्राङ् षष्ठः सुगण् षष्ठः' इति स्थिते, यथाक्रमङ्कुकिटुकि च तयोः पूर्वावयवत्वेन पदान्तत्वाज्जश्त्वमाशङ्क्याह–कुक्टुकोरिति। `पौष्करसादिशब्दस्य चयो द्वितीया' इत्यर्थभ्रमं वारयति–पौश्करसादिराचार्य इति। तथाच विकल्पः फलतीति भावः। प्राङ्?क् षष्ठ इति कुकि रूपम्। `चयो द्वितीया' इति पक्षे प्राङ् ख् षष्ठ इति रूपम्। नचात्र खकारस्य खरि चेति चर्त्वं खकारारम्भविधिसामथ्र्यात्। `चयो द्वितीया' इति `नादिन्याक्रोश' इति सूत्रभाष्यपठितमिदम्। `प्राङ् षष्ठ' इति कुगभावे रूपम्। एवं टुक्यपि सुगण्?टषष्ठ इत्यादि।
104 ङ्णोः। चयो द्वितीया इति। एतच्च नादिन्याकोशे इति सूत्रे भाष्ये स्थितम्। अतएव मनोरमायां `डः सी'ति सूत्रे `तु'डित्युच्यमाने `चयो द्वितीयाः-' इति पक्षे थकारापत्तिरुक्ता। यदि तु `ङ्णोः' इति सूत्रस्थं स्यात्तर्हि `तु'डित्येव सुवचं स्यात्। तुटोऽसिद्धत्वेन चयो द्वितीयाः-इत्यस्याऽप्रवृत्तेः। पौष्करसादेरिति। पुष्करे तीर्थविशेषे सीदतीति पुष्करसत्। तस्यापत्यं पौष्करसादिराचार्यः। बाह्वादित्वादिञ्। अनुशतिकादित्वादुभयपदवृद्धिः।
TBD.