Table of Contents

<<1-1-66 —- 1-1-68>>

1-1-67 तस्मादित्युत्तरस्य

प्रथमावृत्तिः

TBD.

काशिका

निर्दिष्टग्रहनम् अनुवर्तते। तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। तिङ्ङतिङः 8-1-28 ओदनं पचति। इह न भवति पचत्योदनम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

71 पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्..

बालमनोरमा

43 तस्मादित्युत्तरस्य। द्व्यन्तरुपसर्गेभ्योऽप ईत्' `उदस्थारतम्भोः पूर्वस्ये'त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणं `तस्मा'दिति। `इति' शब्दानन्तरं `गम्येऽर्थे' इति शेषः। `निर्दिष्टे' इत्यनुवर्तते। निरिति नैरन्तर्ये। दिशिरुच्चारणे `द्व्यन्त'रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम्। तदाह– पञ्चमीनिर्देशेनेत्यादिना। उत्तरस्य किम् ? तिङ्ङतिङ' इति निघात उत्तरस्यैव भवति– अग्निमीले। नेह ईले अग्निम्। अव्यवहिते किम्?, उत्प्रस्थानम्। उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति।

तत्त्वबोधिनी

37 तस्मादिति। उत्तरस्येति किम् ?, तिङ्ङतिङः' इति निघात उत्तरस्यैव यथा स्यात्। अग्निमीले। नेह-ईले अग्निम्। अव्यवहितस्येति। एतच्च निर्दिष्टग्रहणानुवृत्त्या लभ्यते। तेन उत्संस्थानं उत्संस्तम्भनमित्यादौ `उदस्थे'ति पूर्वसवर्णो न प्रवर्तते।

Satishji's सूत्र-सूचिः

TBD.