Table of Contents

<<8-2-67 —- 8-2-69>>

8-2-68 अहन्

प्रथमावृत्तिः

TBD.

काशिका

अहनित्येतस्य पदस्य रुः भवति। अहोभ्याम्। अहोभिः। नलोपम् अकृत्वा निर्देशो ज्ञापकः नलोपाभावो यथा स्यातिति। दीर्घाहा निदाधः, हे दीर्घाहो ऽत्र इति। अहनित्यत्र तु लाक्षणिकत्वादहन्शब्दस्य रुः न भवति। अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानं कर्तव्यम्। अहोरूपम्। अहोरात्रः। अहोरथन्तरम्। रो ऽसुपि 8-2-69 इत्यस्य अपवादो रुत्वम् उपसङ्ख्यायते। अपर आह सामान्येन रेफादौ रुत्वं भवति, अहोरम्यम्, अहोरत्नानि इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

395 नलोपाभावं निपात्येति। `अहन्'इत्यत्र नकारान्तरं प्रश्लिष्य `नान्तस्य अहन्शब्दस्य रु'रिति व्याख्यायामपि रुत्वरत्वयोर्नकारस्थानिकत्वं सेत्स्य.तीति बोध्यम्। तदन्तस्यापीति। पदाधिकारस्थत्वादिति भावः। न चात्र प्रत्ययलक्षणन्यायेन अन्त वर्तिनीं विभक्तिमाश्रित्य समासैकदेशस्याप्यहन्शब्दस्य पदत्वाद्रुत्वं स्यादेव, किमनेन तदन्तविध्याश्रयणेनेति शङ्क्यम्। `उत्तरपदत्वे चापदादिविधौ'इति प्रतिषेधेनुप्रत्ययलक्षणाऽप्रवृत्तः।सृजिदृशीरिति सूत्र इति। एतच्चोलक्षणम्,`मृजेर्वृद्धिः'इति सूत्रेऽपि तत्प्रयोगात्। रज्जुसृङ्भ्यामति। ननु भ्याम्प्रत्ययोझलादिरकिद्भवतीति `सृजिदृशोः'इत्यमागमः स्यात्। मैवम्। धातोः स्वरूपेणानुपादानादिति शङ्क्यम्, धातोरुच्यमानं कार्यं तत्प्रत्यय एवेति परिष्कारात्। एवं च `प्रसृङ्भ्यां' `प्रसृङ्भि'रित्यादौ नायं दोषः पर्सज्यते। एतच्च मृजेर्बुद्धि`रिति सूत्रे भाष्ये स्पष्टम्। ननु धातोरुच्यमानं कार्यं तत्प्रत्यय एवेति चेत् `धियौ'`धियः', `भुवौ'भुवः इत्यादवियङुवङौ न स्यातां, किंतु `चिक्षियतुः'`लुलुवतु'रित्यादावेव स्याताम्। सत्यं। वस्तुगत्या धातोरेवाच्यमानं कार्यमियङादिकं न भवति किन्त्वङ्गस्योच्यमानमिति वैषम्यात्। कुत्वापवाद इति। षत्वसूत्रे `सृजमृजयजे'ति विशिष्य ग्रहणादिति भावः। असृक्शब्दस्त्विति। एतच्च क्षीरस्वामिग्रन्थे स्पष्टम्। ऋज्प्रत्यये बोध्य इति। यद्यप्यस्मिन्पक्षे स्वरो भिद्यते, तथापि लोके स्वरस्याऽनारहराद्वेदे तु बाहुलकादिष्टःस्वरः सिध्यतीति भावः। वार्त्तिकं–बहूर्जि प्रतिषेधः,' `अन्त्यात्पूर्वं नुममेके'इति। भाष्ये तु अचः परोयो झल्तदन्तस्य नुमित्याश्रित्य पर्थमवार्तिकं प्रत्याख्यातम्। एवं च `ऊर्न्जी'त्यत्र नुम् दुर्लभः। किंच `उर्दमाने क्रिडायां च', `गर्हं गर्हायाम्'। इत्यादीनां क्विबन्तानां भाष्यमते नुमा न भाव्यमेवेति बोध्यम्। अल्लोपस्य स्थानिवत्त्वादिति। `क्वौ लुप्तं न स्थानिवत्'इति तु नेहाश्रीयते, तस्य क्वाचित्कत्वात्। `क्वौ विधिं पर्ति न स्थानिव'दित्यस्यैव सार्वत्रिकत्वादिति भावः। जायन्ते नव सौ,तथाऽमि च नव, भ्य्रांभिस्भ्यसां सङ्गमे–षट्सङ्ख्यानि, नवैव सुप्यथ जसि त्रिण्येव, तद्वच्छसि। चत्वार्यन्यवचःसु कस्य विबुधाः। शब्दस्य रूपाणि तज्जानन्तु प्रतिभाऽस्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः।'इति नरपतिसभायां क्वचित्केनचित्प्राचीनेन कृतस्याक्षेपस्य प्राचीनैरेव पण्डितैः कैश्चित् `गवाक्छब्दस्ये'त्यादिना `विभावये'त्यन्तेन श्लोकद्वयेन सभाधाननुक्तम्। तदेव श्लोकद्वयं प्रकृतोपयोगादाह–गवाक्छब्दस्य रूपाणीति। अञ्चतेर्गतौ नलोपः, पूजायां तु नेत्याशयेनाह—अर्चागतिभेदत इति। आद्यादित्वात्तसिः। पूजागत्यर्थभेदेनाषऽसन्ध्यवङादिभिर्नवाधिकशतं रूपाणि बोध्यानीत्यर्थः। उक्तसङ्ख्यापयति–स्वम्सुप्स्विति। `प्रत्येक'मिति शेषः। एवमग्रेऽपि `षट्' `त्रीणि'`चत्वारी'त्यत्रापि बोध्यम्। रूपाणीति। सङ्कलनया नवाधिकशतं रूपाणीत्यर्थः। इह `चयो द्वितीयाः'इति वार्तिकमनाश्रित्य `नवाधिकशत'मित्युक्तमिति बोध्यम्। तदाश्रयणे तु `त्रीणि रूपाणि वद्र्धन्ते'इत्यनुपदमेव वक्ष्यमाणत्वात्। इत्यादीति। आदिशब्देनाऽन्यान्यपि ज्ञेयानि। तद्यथा–गवाग्भिः। गोअग्भिः। गोग्भिः। गवाङ्भिः। गोऽह्भिः। ङयि–गोचे। गवाञ्चे। गोऽञ्चे। भ्यामि प्राग्वत्। भ्यसि गवाग्भ्यः। गोअग्भ्यः। गोग्भ्यः। गवाङ्भ्यः। घोअङ्भ्यः। ङसौ–गोचः। गवाञ्चः।गोअञ्चः। गोऽञ्चः। भ्यामि भ्यसि च प्राग्वत्। ङसि पञ्चम्येकवचनत्। ओसि–गोचोः। गवाञ्चोः गोअञ्चोः। गोऽञ्चोः आमि–गोचाम्। गवाञ्चाम् गोअञ्चम्। गोऽञ्चाम्। ङौ तु–गोति। गवाञ्चि। गोअञ्चि। गोऽञ्चि। ओसि प्रग्वत्। सुपि तु–गवाङ्क्षु। गवाङ्षु। गोअङ्क्षु। गोअङ्षु। गोऽङ्क्षु। गोऽङ्षु। गवाक्षु। गोअक्षु। गोक्षु। ननु भ्याम्त्रये भ्यस्द्वये ङसिङसोरोस्द्वये च समानरूपत्वात् कथमिह नवाधिकशतमित्युक्तमिति च#एत्। अत्राहुः–अर्थभेदेन रुपभेदमाश्रित्य तथोक्तमिति। षण्णामाधिक्यं शङ्क्यमिति। नवसु मध्ये ककारस्थाने पाक्षिकखकारप्रवृत्त्या रूपषट्काधिक्यं न शङ्क्ंइत्यर्थः। वद्र्धन्त एवेति। एवं च त्रयाणामाधिक्यसंभवात्सुपि द्वादश रूपाणि भवन्तीति सङ्कलनया द्वादशाधिकशतं मतं म तु नवाधिकशतमिति भावः। अ\उfffदाआक्षिभूतानीति। सप्तविंशत्यधिका(528)पञ्चशतीत्यर्थः। सौ नवानामन्त्यस्य द्वित्वे अष्टादश। औडिचतुर्णां मध्ये पूजार्थानां त्रयाणां ञद्वित्वे सप्त। `अणोऽपर्गृह्रे'त्यनुनासिकस्तु नास्ति, पर्गृह्रत्वात्। जसि ञद्वित्वस्यानुनासिकस्य च विकल्पात् द्वादश। सङ्कलनयां सप्ततिं?रशत्(37)। एवं द्वितीयायामपि विभक्तौ सप्ततिं?रशत्। तथा च सङ्कलनया चतुःसप्तति(74)टायां चतुर्णां मध्ये पूजार्थानां त्रयाणां ञद्वित्वे सप्त। तेषां च सप्तानामनुनासिकचतुर्दश। सङ्कलनया अष्टाशीतिः(88)। भ्यामि षट्सु रूपेषु भात्पूर्वस्य द्वित्वे द्वादश, तेषां द्वादशानामपि `यणो मयः'इति यद्वित्वे चतुर्विंशतिः, तेषामपि मकारस्य द्वित्वेऽष्टचत्वारिंशत्। संकलनया षट्?तिं?रशदधिकं शतम्। भिसि चतुर्विंशतिः,भात् पूर्वस्य विसर्गस्य च द्वित्वात्सङ्कलनया षष्ट\उfffदुत्तरशतम्। ङयि चतुर्णा मध्ये पूजार्थानां त्रयाणां ञद्विक्ने सप्त। अनुनासिकस्तु नास्ति, एकारस्यानण्त्वात्। सङ्कलनया सप्तोत्तरषष्ठ\उfffद्धिकं शतद्वयम्। ङसौ चतुर्णा मध्ये ञद्वित्वे सप्त। तेषां तु सप्तानां विसर्गद्वित्वे चतुर्दश। सङ्कलनया सप्तोत्तरसप्तत्यधिकं शतद्वयम्। ङसौ चतुर्णां मध्ये ञद्वित्वे सप्त। तेषां तु सप्तानां विसर्गद्वित्वे चतुर्दश। सङ्कलनया स्पतोत्तरसप्तत्यधिकं शतद्वयम्। भ्याम्भ्यासोः प्राग्वदेव प्रत्येकमष्टचत्वारिंशत्। सङ्कलनया त्रिसप्तत्यधिकं शतत्रयम्। ङसाविवङसोसाम्ङिओसित्यत्रापि प्रत्येकं चतुर्दश। चतुर्षु रूपेषु मध्ये ञद्वित्वे सप्तानामप्यन्त्यस्य द्वित्वात्। ङौ तु सप्तानामप्यन्त्यस्य `अणोऽप्रगृह्रस्ये'ति वैकल्पिकानुनासिकपर्वृत्तेः सङ्कलनया त्रिचत्वारिंशदधिकं शतचतुष्टयम्। सुपि गत्यर्थे त्रयाणां कद्वित्वे षट्। तेषां तु `खयः शरः'इति षद्वित्वे द्वादश। उकारस्यानुनासिके चतुर्विंशतिः। सङ्कलनया सप्तोत्तरषष्ठ\उfffद्धिकं शतचतुष्टयम्। पूजायां तु कुगभावे त्रयाणां ङकारद्वित्वेऽनुनासिके च द्वादश। कुक्पक्षे तु चयो द्वितायादेशे षट्। षष्णां ङषय्रोर्द्वित्वेऽनुनासिके चाऽष्टचत्वारिंशत्। सङ्कलनया सप्तविंशत्यधिका पञ्चशतीत्यर्थः। तिरश्ची इति। भत्वात्–`अचः' इत्यल्लोपः। `अलोपे'इति वचनात्तिर्यादेशाऽभावः।

Satishji's सूत्र-सूचिः

263) अहन् 8-2-68

वृत्ति: अहन्नित्‍यस्‍य रुँ: पदान्‍ते । “रुँ” is substituted for (the ending नकार: of) “अहन्”, when it has the पद-सञ्ज्ञा।

उदाहरणम् – अहन् + भ्याम् 4-1-2 (अङ्गम् gets the पद-सञ्ज्ञा by 1-4-17)= अहरुँ + भ्याम् 8-2-68 = अहर् + भ्याम् 1-3-2, 1-3-4 = अह उ + भ्याम् 6-1-114 = अहोभ्याम् 6-1-87