Table of Contents

<<8-2-68 —- 8-2-70>>

8-2-69 रो ऽसुपि

प्रथमावृत्तिः

TBD.

काशिका

अहनित्येतस्य रेफादशो भवति असुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपि इति किम्? अहोभ्याम्। अहोभिः। ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति? न एतदस्ति। उक्तम् एतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति। नायमहःशब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहो ऽत्र, दीर्घाहो निदाघ इति। अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

110 अह्नो रेफादेशो न तु सुपि. अहरहः. अहर्गणः..

बालमनोरमा

171 रोऽसुपि। रः-असुपीति छेदः। `अहन्' इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति। नतु सुपीति। पर्युदासाश्रयणे तु `नञिवयुक्त'न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः। ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह–रोरपवाद इति। अहरहरिति। `नित्यवीप्सयो'रिति द्विर्वचनम्। अहन्-अहन् इति स्थिते रत्वम्। `न लुमते'ति निषेधात्सुप्परकत्वाऽभावः। `अह'न्निति रुत्वे तु `अतो रोरप्लुता'दित्युत्वं स्यात्। अहर्गण इति अह्नां गण इति विग्रहः। `अह'न्निति रुत्वे तु `अतो रोरप्लुता'दित्युत्वं स्यात्। अहर्गण इति। अह्नां गण इति विग्रहः। `अह'न्निति रुत्वे तु `हशि चे'त्युत्वं स्यात्। अहोभ्यामिति। `अहन्-भ्या'मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः। अत्रेति। `अह' न्निति रुत्वे `हशि चे'त्युत्वे आद्गुणः। `रोऽसुपी'ति रत्वस्याऽयमपवादः। अहोरूपमिति।अह्नो रूपमिति विग्रहः। `अहन्-रूप'मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः। रत्वे तु हशि चेत्युत्वं न स्यात्। गतमहो रात्रिरेषेति। `अहन्-रात्रि'रिति स्थिते, रुत्वम्, उत्वम्,आद्गुणः। रत्वे तु उत्वं न स्यात्। ननु अहश्च रात्रिश्चेति द्वन्द्वे, `अहस्सर्वैकदेशे'त्यादिना समासान्ते अचि, `यस्येति चे'ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे, `रात्राह्नाहाः पुंसी'ति पुंस्त्वे, `अहोरात्र' इति रूपम्। अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् ?, ततश्च `रोऽसुपी'ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति। अहोरथन्तरमिति। अहश्च रथन्तरं चेति द्वन्द्वः। रथन्तरं = सामविशेषः।\र्\नहरादीनाम्। ननु `अहरादीना'-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति। अहर्पतिरिति। अह्नां पतिरिति विग्रहः। गीर्पतिरिति। गिरां पतिरिति विग्रहः। धूर्पतिरिति। धुरां पतिरिति विग्रहः। उभयत्रापि `र्वोरुपधाया' इति दीर्घः। पक्षे इति। रत्वाऽभावपक्षे विसर्गस्य `कुप्वो'रिति उपध्मानीयविसर्गौ। `इदुदुपधस्ये'ति षत्वं तु तपरकरणान्नेति भावः।

तत्त्वबोधिनी

141 रोऽसुपि। `असुपी'ति यदि पर्युदासः स्यात्ततः सुप्सदृशे प्रत्यय एव स्यादहर्यतीत्यादौ, न त्वहर्भातीत्यादावपि। तस्मात्प्रसज्यप्रतिषेध एवेति व्याचष्टे-न तु सुपीति। अहरहरिति। `नित्यवीप्सयो'रिति द्वित्वम्। न चात्र रेफादेशस्याऽसिद्धत्वात्पूर्वं नलोपे अकारस्यैव रेफः स्यादिति वाच्यम्, `अह'न्नित्याववर्त्त्य एकेन लोपाभावं निपात्य द्वितीयेन रुर्विधेय इति `अह'न्निति सूत्रे वक्ष्यमाणतया रुत्वपवादस्यापि रेफादेशस्य नकारस्थानिकत्वलाभात्। \र्\नहोरात्र इति। `अहःसर्वैकदेशे'त्यादिना समासान्तो वक्ष्यते। `रात्राह्नाहाः पुंसी'ति पुंस्त्वम्। अहोरथन्तरमिति। रथन्तरं साम। तेनाह्नः समाहारद्वन्द्वः। पृथक्?पदत्वं वा। \र्\नहारादीनामिति। उभयत्राप्यादिशब्दः प्रकारे। तेन `स्वर्चक्षा रथिरः,' `कविः काव्येना स्वर्चना' इत्यादि ग्राह्रम्।

Satishji's सूत्र-सूचिः

262) रोऽसुँपि 8-2-69

वृत्ति: अह्‍नो रेफादेशो न तु सुँपि । रेफः is substituted for (the ending नकार: of) अहन् when not followed by a सुँप्-प्रत्यय:।
Note: The negation introduced by using असुँपि in the सूत्रम् should be taken as a प्रसज्य-प्रतिषेधः।

गीतासु उदाहरणम् – श्लोकः bg8-24
अहन् + सुँ 4-1-2 = अहन् 7-1-23 = अहर् 8-2-69 = अहः 8-3-15