Table of Contents

<<8-2-66 —- 8-2-68>>

8-2-67 अवयाः श्वेतवाः पूरोडाश् च

प्रथमावृत्तिः

TBD.

काशिका

अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते। अवपूर्वस्य यजेः अवेतपूर्वस्य वहेः, पुरस् पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् 3-2-71, अवे यजः 3-2-72 इति ण्विनि कृते, श्वेतवहादीनां डस्पदस्य इति डस्प्रत्यये निपातनानि एतानि। किमर्थं तर्हि निपातनं यावता पूर्वेण एव रुः सिद्धः, दीर्घत्वम् अपि अत्वसन्तस्य चाधातोः 6-4-14 इति? सम्बुद्धौ दीर्घार्थम् एते निपात्यन्ते। अत्वसन्तस्य चाधातोः 6-4-14 इत्यत्र हि असम्बुद्धौ इति वर्तते। हे अवयाः। हे श्वेतवाः। हे पुरोडाः। चकारो ऽनुक्तसमुच्वयार्थः। हे उक्थशाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.