TBD.
इटः उत्तरस्य सकारस्य लोपो भवति ईटि परतः। अदावीत्। अलावीत्। असेवीत्। अकोषीत्। अमोषीत्। इटः इति किम्? अकार्षीत्। अहार्षीत्। ईटि इति किम्? अलाविष्टाम्। अलाविषुः।
TBD.
448 इटः परस्य सस्य लोपः स्यादीटि परे. (सिज्लोप एकादेशे सिद्धो वाच्यः). आतीत्. आतिष्टाम्..
110 इट ईटि। `इट' इति पञ्चमी। रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते। तदाह–इटः परस्येति। एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत्–इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति। तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह– सिज्लोप एकादेशे सिद्धो वक्तव्य इति। आतिष्टामिति। लुङस्तस्। तस्य ताम्। च्लेः सिच्। तस्य इटि आचि वृद्धौ षत्वम्। अपृक्तत्वाऽभावेन ईडभावात्सलोपो न। आतिषुरिति। लुङो झिः। च्लेः सिच्। जुस् इट् आट् वृद्धिः। षत्वं रुत्वविसर्गौ। आतीः आतिष्टम् आतिष्ट। आतिषम् आतिष्व आतिष्म।
85 `संयोगान्तस्य लोपः'इत्यतो लोप इति, `रात्सस्ये'त्यतः सस्येति चानुवर्तते। तदाह– लोपः स्यादिति। इटः किम् ?। अहार्षीत्। ईटि किम् ?। आतिष्टाम्। आतिषु।
वक्तव्ये सिज्ग्रहणं `झलो झली'त्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम्। तेनेह सोमस्तुत्। स्तोता। द्विष्रकटराम्। द्विष्टमाम्। `धि चे'ति सूत्रे तु वामनमते सिचो लोपः। भाष्यमते तु सस्येति भेदो बोध्य इति।
वृत्ति: इटः परस्य सस्य लोपः स्यादीटि परे । A सकार:, which is preceded by the augment इट् and followed by the augment ईट्, is elided.
Example continued from 7-2-7
अ पठ्/पाठ् + इस् + ईत्
= अ पठ्/पाठ् + इ + ईत् 8-2-28. Now, as per 8-2-1, this elision done by 8-2-28 is असिद्ध: (not evident) in the eyes of 6-1-101. So in order to allow for the application of 6-1-101, the following वार्त्तिकम् is required.
सिज्लोप एकादेशे सिद्धो वाच्यः । वार्त्तिकम् under 8-2-3