याट् (1/1), आपः (5/1)| अनु. – ङिति, अङ्गस्य।
हिन्दी – आबन्त अङ्गके से उत्तर ङित् प्रत्यय को याट् आगम होता है।
आबन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्यायै। खट्वायाः। बहुराजायाः। कारीषगन्ध्यायाः। अतिखट्वायेत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः (महाभाष्य 1.138) इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात् (परि 105)।
The augment याट् is added to the Dat., Abl. and Gen. Sg. after a Feminine stem ending in आ।
220 आपो ङितो याट्. वृद्धिः. रमायै. रमाभ्याम्. रमाभ्यः. रमायाः. रमयोः. रमाणाम्. रमायाम्. रमासु. एवं दुर्गाम्बिकादयः..
288 यडापः। `आप' इति पञ्चमी। `धेर्ङिती'त्यतो डितीत्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। तदाह–आपः परस्येत्यादिना। टित्त्वादाद्यवयवः। वृद्धिरेचीति। या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः। सवर्णेति। ङसिङसोः रमा अस् इति स्थिते याडागमे `अकः सवर्णे दीर्घः' इति सवर्णदीर्घ इति भावः। `य'डित्येव सुवचम्। `अतो गुणे' इति पररूपं तु न, अकारोच्चारणसामथ्र्यात्। रमयोरिति। `आङि चापः' इत्यात्त्वेऽयादेश इति भावः। रमाणामिति। `ह्यस्वनद्यापः' इत्यत्राऽऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्या `नामी'ति दीर्घे `अट्कुप्वा' ङिति णत्वमिति भावः। रमायामिति। `रमा-इ' इति स्थिते `ङेराम्नद्याम्नीभ्यः' इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः। `न विभक्तौ' इति मस्य नेत्त्वम्। सर्वशब्दाट्टापि सर्वाशब्दः। सोऽपि प्राये रमावत्। ङित्सु `याडापः' इति प्राप्ते- ।
250 याडापः। `घेर्ङिती'त्यतोऽनुवृत्तं `ङिति'ति सप्तम्यन्तमाप इति पञ्चम्यनुरोधेन षष्ट\उfffद्न्तं विपरिणम्यत् इत्याह—ङिद्वचनस्येति। अत्र `सुपि चे'त्यतः `सुपी'त्यमुवर्तनात्सुप एव याट्। तेन अपित्सार्वधातुकस्य ङित्त्वेऽपि मालेवाचरतो `मालात'इत्यादौ तसादेर्न भवति। एतच्च `अचः परस्मि'न्नित्यत्र पूर्वस्यविधिः पूर्वविधिरिति षष्ठीसमासपक्षाभ्युपगमेनोक्तम्। पञ्चमीसमासपक्षाभ्युपगमे तु शपः स्थानिवत्त्वेन व्यवधानात् `मालात्'इत्यादौ याटः प्रसङ्ग एव नास्तीत्याहुः। `य'डित्येव वक्तव्ये दीर्घोच्चारणं स्पष्टप्रतिपत्त्यर्थम्। न च `अतो गुणे'इति पररूपापत्तिः, अकारोच्चारणसामथ्र्यादेव तद्बाधात्। वृद्धिरेचीति। प्राचा तु `आटश्चे'त्युपन्यस्तंतदुपेक्षितम्। याट्स्याटोष्टकारस्य समुदायानुबन्धत्वेनेह आटोऽभावात्।
121) याडापः 7-3-113
वृत्ति: आपो ङितो याट् । The “ङित्” (having ङकार: as a इत्) affixes following a base ending in an “आप्” affix get the augment “याट्”।
उदाहरणम् – रमा + ङे = रमा + या ए 1-3-8, 7-3-113, 1-1-46 = रमायै 6-1-88
रमा + ङसिँ = रमा + अस् 1-3-2, 1-3-8 = रमा + या अस् 7-3-113, 1-1-46 = रमायास् 6-1-101 = रमाया: 8-2-66, 8-3-15
रमा + ङस् = रमा + अस् 1-3-8, 1-3-4 = रमा + या अस् 7-3-113, 1-1-46 = रमायास् 6-1-101 = रमाया: 8-2-66, 8-3-15