Table of Contents

<<6-1-87 —- 6-1-89>>

6-1-88 वृद्धिरेचि

प्रथमावृत्तिः

TBD.

काशिका

आतिति वर्तते। अवर्णात् परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्य अपवादः। ब्रहमैडका। खट्वैडका। ब्रह्मैतिकायनः। खट्वैतिकायनः। ब्रह्मौदनः। खट्वौदनः। ब्रह्मौपगवः। खट्वौपगवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

33 आदेचि परे वृद्धिरेकादेशः स्यात्. गुणापवादः. कृष्णैकत्वम्. गङ्गौघः. देवैश्वर्यम्. कृष्णौत्कण्ठ्यम् ॥

बालमनोरमा

73 वृद्धिरेचि। आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवत्र्तते। एकऋ पूर्वपरयोरित्यधिकृतम्। तदाह–आदेचीत्यादिना। गुणापवाद इति। आद्गुण इति प्राप्तावेतदारम्भादिति भावः। कृष्णैकत्वमिति। कृष्णस्य-एकत्वमिति षष्ठीसमासः। `पूरणगणे'ति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते। कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये। अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः। गङ्गा-ओघ इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः। एवं देवै\उfffदार्यं कृष्णौत्कण्ठ\उfffद्मित्यत्रापि। वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति त्रैव वक्ष्यामः।

तत्त्वबोधिनी

60 वृद्धिरेचि। पूर्वसूत्रादादित्यनुवर्तते। तदाह-आदेचीति। `कृष्णे'ति संबोधने पृथक् पदम्। एवं `देवे'त्यपि। इत्थं चात्र षष्ठीसमासत्वमभ्युपेत्य `पूरणगुणे'ति निषेधमाशङ्क्य `संज्ञाप्रमाणत्वा'दित्यादिनिर्देशेन `गुणेन निषेधोऽनित्यः' इति केषाचिद्व्याख्यानं नात्यन्तावश्यकमिति बोध्यम्।

Explain [अवर्ण] + [एच्] > [वृद्धिः एकादेश:]

Satishji's सूत्र-सूचिः

4) वृद्धिरेचि 6-1-88

वृत्ति: अवर्णात् परो य एच् , एचि च पूर्वो योऽवर्णः , तयोः पूर्वपरयोरवर्णैचोः स्थाने वृद्धिरेकादेशो भवति । आद्गुणस्यापवादः । In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following एच् letter, there is a single substitute of a वृद्धि: letter (“आ”, “ऐ”, “औ” – ref. 1-1-1). This rule is an exception to the prior rule आद्गुणः 6-1-87

गीतासु उदाहरणम् – श्लोकः bg1-1

च + एव = चैव