Table of Contents

<<7-1-95 —- 7-1-97>>

7-1-96 स्त्रियां च

प्रथमावृत्तिः

TBD.

काशिका

असर्वनामस्थानार्थम् आरम्भः। स्त्रियां च क्रोष्तुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियाम् इत्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद् भवति। कृते ऽतिदेशे ऋन्नेभ्यो ङीप् 4-1-5) इति ङीप्प्रत्ययः। तत्र उदात्तयणो हल्पूर्वात् (*6,1.174 इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

232 स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते..

बालमनोरमा

303 अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह–स्त्रियां च। `तृज्वत्क्रोष्टुः' इत्यनुवर्तते। रूपातिदेशोऽयमित्युक्तम्। तदाह–स्त्रीवाचीत्यादिना। तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव। किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

159) वार्त्तिकम् (in महाभाष्यम् on 7-1-96) – वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुँम् पूर्वविप्रतिषेधेन

When there is a विप्रतिषेधः of the नुँम् augment with a वृद्धिः, औत्वम्, तृज्वद्भावः or गुणः, the नुँम् augment comes by पूर्वविप्रतिषेधः (in spite of it being an earlier rule in the अष्टाध्यायी).

उदाहरणम् – वारि + ङे = वारि + ए 1-3-8 = वारिनुँम् + ए 7-1-73 – (The गुणः prescribed by 7-3-111 घेर्ङिति is stopped by this वार्त्तिकम्) = वारिणे 1-3-2, 1-3-3, 8-4-2