Table of Contents

<<7-1-72 —- 7-1-74>>

7-1-73 इको ऽचि विभक्तौ

प्रथमावृत्तिः

इकः 6/1, अचि 7/1, विभक्तौ 7/1| अनु. - नपुंसकस्य, नुम्, अङ्गस्य।
हिन्दी - [ इकः ] इक् अन्तवाले नपुंसक अङ्ग को [ अचि ] अजादि [ विभक्तौ ] विभक्ति परे रहते नुम् आगम होता है।

काशिका

इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति। त्रपुणी। जतुनी। तुम्बुरुणी। त्रपुणे। जतुने। तुम्बुरुणे। इकः इति किम्? कुण्डे। पीठे। अचि इति किम्? उत्तरार्थम्। यद्येवम्, तत्र एव कर्तव्यम्? इह तु करणस्य एतत् प्रयोजनम्, हे त्रपो इत्यत्र नुम् मा भूत्, इति, न ङिसम्बुद्ध्योः 8-2-8 इति नलोपप्रतिषेधः स्यात्। ननु च न लुमताङ्गस्य 1-1-63 इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव न अस्ति? एतदेव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधो ऽत्र न भवति इति। तथा च सम्बुद्धिगुणः क्रियते। विभक्तौ इति किं? तौम्बुरवं चूर्णम्। इको ऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम्। स्वरो वै श्रूयमाणे ऽपि लुप्ते किं न भविष्यति। रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि। नुड् वाच्य उत्तरार्थं तु इह किञ्चित् त्रपो इति।

Ashtadhyayi (C.S.Vasu)

The augment नुम् is added to a Neuter-stem ending in a simple vowel, except अ, before a case-affix beginning with a vowel.

लघु

246 इगन्तस्य क्लीबस्य नुमचि विभक्तौ. वारिणी. वारीणि. न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः. हे वारे, हे वारि. घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन). वारिणे. वारिणः. वारिणोः. नुमचिरेति नुट्. वारीणाम्. वारिणि. हलादौ हरिवत्..

बालमनोरमा

318 इकोऽचि। `इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते। `नपुंसकस्य झलचः' इत्यतो `नपुंसकस्ये'त्यनुवर्तते, `अङ्गस्ये'त्यदिकृतमिका विशेष्यते, ततस्तदन्तविधिः, तदाह–इगन्तस्येत्यादिना। अचि विभक्ताविति। अजादौ विभक्तावित्यर्थः। `इकोऽचि सुपी'त्येव सुवचम्। विभक्तौ किम् ? मधु=मद्यं, तस्येदं माधवम्। अणि परे नुमि टिलोपे `माध'मिति स्यात्। वारिणी इति। वारि-औ इति स्थिते शीभावे नुमि `अट्कुप्वाङिति णत्वे रूपम्। वारीणीति। जश्शसोः शिभावे नुमि `सर्वनामस्थाने चे'ति दीर्घे णत्वे रूपम्। हे वारि सु इत्यत्र सोर्लुकि प्रक्रियां दर्शयति–पक्ष इति। `ह्यस्वस्य गुण' इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः। नन्विह सम्बुद्धेर्लुका लुप्तवान्न लुमतेति प्रत्ययलक्षणनिषेधात्कथं गुण इत्यत आह-न लुमतेतिनिषेधस्यानित्य्त्वादिति। अत्र च `इकोऽचि विभाक्तौ' इत्यत्राज्ग्रहणं ज्ञापकम्। हलादिषु भ्यामादिषु सत्यपि नुमि `न लोपः प्रातिपदिकान्तस्ये'ति तस्य लोपसम्भवादचीति व्यर्थम्। न च सम्बुद्धिव्यावृत्त्यर्थमज्ग्रहणं, तुत्र नुमि सति `न ङिसम्बुद्धयो'रिति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यं, सम्बुद्धेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः। प्राप्तेरेवाऽभावात्। `न लुमते'ति निषेधस्याऽनित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणमर्थवदिति भवत्यज्ग्रहणं `न लुमते'त्यस्यानित्यत्वे लिङ्गमित्याहुः। अत एव `इकोऽची'ति सूत्रे हे त्रपो इति, एङ्?ह्यस्वादिति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते। आङो नेति। रूपे विशेषाऽभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः। ङसिङसोर्विशेषमाह-घेरिति। नुमं बाधित्वा परत्वाद्गुणे प्राप्त इत्यर्थः। क्रमेण-गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः। नुमोऽवकाशो वारीणि इति। अतिसखीनीत्यत्र जश्शसोः `सख्युरसम्बुद्धौ' इति णित्त्वाद्वृद्धिः परत्वान्नुमं बाधित्वा प्राप्ता। वारिणीत्यत्र ङौ तु `अच्च घेः' इत्यौत्त्वं प्राप्तम्। प्रियक्रोष्टूनीत्यत्र जश्शसोस्तृज्वत्त्वं प्राप्तम्। वारिशब्दान्ङ्यादौ गुणः प्राप्तः। अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थः। वारिणे इति। ङयि गुणं बाधित्वा नुमि णत्वे रूपम्। वारिण इति। ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम्। वारिणोरिति। ओसि यणं बाधित्वा नुमि णत्वे रूपम्। वारिण इति। ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम्। वारिणोरिति। ओसि यणं बाधित्वा नुमि णत्वे रूपम्। वारि-आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह–नुमचिरेति। नुडिति। नुम्नुटोः को विशेष इत्यत आह-नामीति दीर्घ इति। नुमि तु सति तस्याङ्गभक्तत्वा'न्नामी'ति दीर्घो न स्यादिति भावः। वारिणीति। ङौ `अच्च घेः' इत्यौत्त्वं परमपि बाधित्वा `वृद्ध्यौत्त्वे'ति पूर्वविप्रतिषेधान्नुम्। न विद्यते आदिः= उत्पत्तिः यस्य सः अनादिः=ई\उfffदारः। अनादिः अविद्या। अनाद#इ ब्राहृ। त्रिलिङ्गोऽयं विशेष्यनिघ्नः। तस्य नपुंसकत्वे प्रथमाद्वितीययोर्वारिवद्रूपाणि।

तत्त्वबोधिनी

280 इकोऽचि। विभक्तौ किं? मधु मद्यं तस्येद माधवम्। अत्र नुमि सति टिलोपः स्यात्। वृद्ध्यौत्वेति। `अति सखिनी'त्यत्र `सख्युरसंबुद्धा'विति णिद्वद्भावाद्वृद्धिः प्राप्ता, `वारिणी'त्यत्र तु `अच्च घे'रित्यौत्त्वम्, `प्रियक्रोष्टूनी त्यादौ तृज्वद्भावः प्राप्तः ननु नुम्रुटोः को विशेषस्तन्नाह—-नामीति दीर्घत्वमिति। नुमस्त्वङ्गभक्तत्वात्तस्मिन्सति दीर्घो न स्यादिति भावः।

Satishji's सूत्र-सूचिः

158) न लुमताङ्गस्य इत्यस्याऽनित्यत्वात् पक्षे समबुद्धिनिमित्तो गुणः - this is inferred based on the inclusion of the term “अचि” in 7-1-73

उदाहरणम् – हे वारि + सुँ – सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 = हे वारि 7-1-23 . At this stage by 7-3-108 there could have been a गुणादेश: in place of the ending इकार: , but this अङ्गकार्यम् is stopped by 1-1-63 न लुमताङ्गस्य.

But the सूत्रम् 1-1-63 न लुमताङ्गस्य is not always followed in the language so we get an alternate form where the गुणादेश: does take place -

हे वारि + सुँ – सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 = हे वारे 7-1-23, 7-3-108 – Due to अनित्यत्वम् of 1-1-63 न लुमताङ्गस्य, the अङ्गकार्यम् is not stopped.