Table of Contents

<<6-4-45 —- 6-4-47>>

6-4-46 आर्धधातुके

प्रथमावृत्तिः

TBD.

काशिका

आर्धधातुके इत्यधिकारः। न ल्यपि 6-4-69 इति प्रागेतस्माद् यदित ऊर्ध्वम् अनुक्रमिष्यामः आर्धह्दातुके इत्येवं तद् वेदितव्यम्। वक्ष्यति अतो लोपः 6-4-48। चिकिर्षता। जिहीर्षिता। आर्धधातुके इति किम्? भवति। भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं 2-4-72 प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यातित्येतन् न ज्ञापकं शपो लोपाभावस्य। यस्य हलः 6-4-49। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। आर्धधातुके इति किम्? बेभिद्यते। णेरनिटि 6-4-51। कारणा। हारणा। आर्धधातुके इति किम्? कारयति। हारयति। आतो लोप इटि च 6-4-64। ययतुः। ययुः। ववतुः। ववुः। आर्धधातुके इति किम्? यान्ति। वान्ति। घुमास्थागापाजहातिसां हलि 6-4-66। दीयते। धीयते। आर्धधातुके इति किम्? अदाताम्। अधाताम्। वा ऽन्यस्य संयोगादेः 6-4-68। स्नेयात्, स्नायात्। आर्धधातुके इति किम्? स्नायात्। आशीर्लिङो ऽन्यत्र न भवति। स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च 6-4-62। कारिषीष्ट। हारिषीष्ट। आर्धधातुके इति किम्? क्रियेत। ह्रियेत यगन्तस्य अजन्तत्वाच् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत। अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्। आल्लोप ईत्वम् एत्वम् च चिण्वद्भवश्च सीयुटि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.