Table of Contents

<<6-4-50 —- 6-4-52>>

6-4-51 णेरनिटि

प्रथमावृत्तिः

TBD.

काशिका

अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणाम् अपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटि इति किम्? कारयिता। हारयिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

531 अनिडादावार्धधातुके परे णेर्लोपः स्यात्.

बालमनोरमा

154 णेरनिटि। आर्धधातुक इत्यधिकृतम्। ‘अतो लोप’ इत्यस्माल्लोप इत्यनुवर्तते। ‘अनिटी’त्यस्य आर्धधातुकविशेषणत्वात्तदादिविधिः।तदाह–अनिडादाविति। तथा च णिलोपे काम् अ त इति स्थिते–परत्वादिति। ‘एरनेकाच’ इत्यस्य ‘णेरनिटी’त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः। कृते तु यणि लोपे दुर्लभः, णेरभावात्। स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः। वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् । यण्स्थानिनमिकारम् अल् रूपं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात्। स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः। ण्यल्लोपाविति। णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः। तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम्। ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयङ्यण्गुणवृद्धिदीर्घाणामवस्यं प्राप्तेर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह–णिलोपस्य त्विति। पचधातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात् ‘स्त्रियां क्ति’न्निति क्तिनि, ‘तितुत्रतथसिसुसकरसकेषु चे’तीण्निषेधे, ‘णेरनिटी’ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः। ‘क्तिजन्त’मिति पाठे तु ‘क्तिच् क्तौ च संज्ञाया’ मिति क्तिज्बोध्यः। ‘पाक्ति’रिति कस्यचित्संज्ञा। अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम्। तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः। वार्तिकं व्यर्थमेवेत्याह– वस्तुस्त्विति। आर्धधातुकमात्रमिति। कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः। तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते। परापेक्षयाऽपवादस्य प्रबलत्वात्। परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम्। कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः। ततस्च अनिटीति वचनसामर्थ्यादिनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते। एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोपैति,- - अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः। अपवाद एवायमिति। णिलोप इत्यर्थः। अतो लोपस्तु ‘चिकीर्षक’ इत्यत्र वृद्धिं, ‘चिकीष्र्या’दित्यत्र ‘अकृत्सार्वधातुकयो’रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम्। इयङिति। उदाहरणसूचनमिदम्। अततक्षिदिति। तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाच इति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम्। यणिति। उदाहरणसूचनम्। आटिटदिति। अटधातोर्ण्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि ‘टी’ त्यस्य द्वित्वे ‘एरनेकाच’ इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम्। गुण इति। उदाहरणसूचनम्। कारणेति। ‘स्त्रिया’मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृद्धिं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम्। दीर्घ इति। उदाहरणसूचनम्। कार्यत इति। कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकि ‘अकृत्सार्वधातुकयो’रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः। तथा च प्रकृते काम् इ अ त इत्यत्र ‘एरनेकाच’ ति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम्।

तत्त्वबोधिनी

128 णेरिति णिङ्णिचोग्र्रहणम्। एवमन्यत्रापि बोध्यम्। ‘अनिटी’त्यनेनाधिकृतमार्धधातुक इत्येतद्विशेष्यते। ‘यस्मिन्विदि’रिति तदादिविधिः। ‘अतो लोपः’ इत्यस्माल्लोप इति चानुवर्तते, तदाह–अनिडादावित्यादि। यणि प्राप्त इति। ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत्, नैवं शङ्क्यम्, इयङादेशे ह्रन्त्यलोपः प्रसज्येतेति दोषः स्यात्. एतच्च ‘अतो लोपः’इति सूत्रे भाष्ये स्थितम्। न चाऽत्र ‘कारणा’ ‘कारक’ इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयायादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोषौक्त इति शङ्क्यं,‘वार्णादाङ्गं बलीयःर’ इत्ययादौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात्। पूर्वविप्रतिषेधेनेति। ण्यल्लोपाविति। णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन। अल्लोपस्तु- वृद्धिदीर्घाभ्यामिति विवेकः। णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तसंभव एव नास्तीत्यत आह– पाक्तिरित्यादि क्तिजन्तमिति। तत्र ‘तितुत्रे’तीण्निषेधादिति भावः। वचनसामर्थ्यादिति। अयं भावः- - ‘णे’रित्येतावति सूत्रे कृतेऽप्यार्धधातुक इत्यनुवृत्त्या आर्धधातुके परतः प्रवर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयथ्र्यं प्रसज्येत, तथा चाऽनिडाद्यार्धधातुकं सर्वमप्यस्य विषयो, न तु क्तिजन्तमेवेति। अयमिति। णिलोप इत्यर्थः। अल्लोपांशे तु वचनमपेक्षितमेव। तेन ‘चिकीर्षक’ इत्यत्र वृद्धि, चिकीष्र्यादित्यत्र ‘अकृत्सार्वे’ति दीर्घं च बाधित्वा पूर्वप्रतिषेधेन ‘अतो लोपः’ इति लोपो भवतीत्याहुः।

Satishji’s सूत्र-सूचिः

वृत्तिः अनिडादावार्धधातुके परे णेर्लोप: स्यात् । The ‘णि’-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

उदाहरणम् – चोरयति (चुरादि-गणः, चुरँ स्तेये, धातु-पाठः # १०. १), लँट्, कर्तरि हेतुमति, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः of ‘चुरँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

चुर् + णिच् 3-1-25. ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चुर् + इ 1-3-3, 1-3-7
= चोरि 7-3-86
‘चोरि’ gets धातु-सञ्ज्ञा by 3-1-32

The विवक्षा is हेतुमति। Therefore – चोरि + णिच् । 3-1-26, ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चोरि + इ 1-3-3, 1-3-7. Note: The प्रत्यय: ‘णिच्’ (which is an इकार: after removing the इत् letters) is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35.
= चोर् + इ 6-4-51
= चोरि
‘चोरि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

चोरि + लँट् 3-2-123
= चोरयति

गीतासु उदाहरणम् – कुर्वन्तं प्रेर्यते = कार्यते।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः || 3-5||

√कृ (डुकृञ् करणे ८. १०), लँट्, प्रथम-पुरुषः, एकवचनम्, कर्मणि हेतुमति।
कृ + णिच् 3-1-26
= कृ + इ 1-3-3, 1-3-7, 1-3-9
= कार् + इ 7-2-115, 1-1-51
= कारि
‘कारि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

कारि + लँट् (कर्मणि) 3-2-123
= कारि + ल् 1-3-2, 1-3-3, 1-3-9
= कारि + त 3-4-78, 1-3-13, 1-4-101, 1-4-102, 1-4-108. ‘त’ gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= कारि + ते 3-4-79
= कारि + यक् + ते 3-1-67. Note: The प्रत्यय: ‘यक्’ is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35.
= कारि + य + ते 1-3-3, 1-3-9
= कार्यते 6-4-51