TBD.
भ्रस्जो रेफस्य उपधायाश्च रम् अन्यतरस्यां भवति। रोपधयोः इति स्थानषष्ठीनिर्देशातुपधा रेफश्च निवर्तेते। मित्त्वाच् च अयम् अचो ऽन्त्यात्परो भवति। भ्रष्टा, भर्ष्टा। भ्रष्टुम्, भर्ष्टुम्। भ्रष्टव्यम्, भर्ष्टव्यम्। भ्रजजनम्, भ्र्जनम्। भृष्टः, भृष्टवानित्यत्र पूर्वविप्रतिषेधेन सम्प्रसारणं भवति। उपदेशे इत्येव, बरीभृज्यते।
TBD.
655 भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके. मित्वादन्त्यादचः परः. स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः. बभर्ज. बभर्जतुः. बभर्जिथ, बभर्ष्ठ. बभ्रज्ज. बभ्रज्जतुः. बभ्रज्जिथ. स्कोरिति सलोपः. व्रश्चेति षः. बभ्रष्ठ. बभर्जे, बभ्रज्जे. भर्ष्टा, भ्रष्टा. भर्क्ष्यति, भ्रक्ष्यति. क्ङिति रमागमं बाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेन. भृज्ज्यात्. भृज्ज्यास्ताम्. भृज्ज्यासुः. भर्क्षीष्ट, भ्रक्षीष्ट. अभार्क्षीत्, अभ्राक्षीत्. अभर्ष्ट, अभ्रष्ट.. कृष विलेखने.. 4.. कृषति कृषते. चकर्ष, चकृषे..
365 भ्रस्जो रोपधयोः। `भ्रस्ज' इत्यवयवषष्ठी। `रोपधयो'रिति स्थानषष्टी। रश्च उपधा च तयोरिति विग्रहः। रेफादकार उच्चारणार्थः। रेफस्य उपधायाश्च स्थाने इति लभ्यते। `आद्र्धधातुके' इत्यधिकृतम्। तदाह – भ्रस्जो रेफस्येत्यादिना। रमि मकार इति. अकार उच्चारणार्थःतदाह – मित्त्वादन्त्यादचः पर इति। तथा च रेफाऽकारादुपरि सकारात् प्राक् रेफ आगम इति फलितत्। भ्र र् स् ज् अ इति स्थितम्। ननु रम आगमत्वे `रोपधयो'रिति कथं स्थानषष्ठीनिर्देश इत्यत आह– स्थानेति। स्थानं – प्रसङ्गः। रेफस्य उपधायाश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः। भकारादुपरि रेफो जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम्। तथा च तयोर्निवृत्तिः फलितेति भावः। एवं च भर्ज् अ इति स्थिते द्वित्वादौ रूपमाह - बभर्जेति।अतुसादावपि संयोगात्परत्वात्कित्त्वाऽभावात् `ग्रहिज्ये'ति संप्रसारणं न भवति। भारद्वाजनियमात्थलि वेडितिमत्वाऽऽह - बभर्जिथ बभर्ष्ठेति। इडभावपक्षे बर्भज् थ इति स्थिते `व्रश्च' इति जस्य षः। ष्टुत्वेन थस्य ठ इति भावः। बभर्जिव। लिटस्तङ्याह - बभर्जे इति। बभर्जाते इत्यादि सुगमम्। रमभावे आह – बभ्रज्जेति। णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यासजश्त्वे बभ्रस्ज् अ इति स्थिते सस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारैति भावः। `लिट\उfffद्भ्यासस्ये'ति संप्रासरणस्य न प्रसक्तिः, अभ्यासे हलादिशेषेण रेफाऽभावात्। बभ्रज्जतुरिति। संयोगात्परत्वादकित्त्वात् `ग्रहिज्ये'ति न संप्रसारणमिति भावः। बभ्रज्जिथेति। थलिभारद्वाजनियमादिट्पक्षे रमभावपक्षे लिटस्तह्राह– बभ्रज्जेति। बभ्रज्जाते। बभ्रज्जिषे। इत्यादि सुगमम्। भ्रष्टेति। रमभावपक्षे रूपम्। भर्ष्टेति। रमागमे भर्ज् ता इति स्थिते जस्य `व्रश्च' इति षः, ष्टुत्वेन तकारस्यट इति भावः। एवं - - भ्रक्ष्यति भक्ष्र्यतीति। `षढो'रिति कत्वे सस्य षत्वमिति विशेषः। भृज्जतु।अभृज्जत्। भृज्जेत्। ननु आशीर्लिङि भ्रस्ज् यादिति स्थिते यासुटः कित्त्वात् `ग्रहिज्ये'ति संप्रसारणे पूर्वरूपे सकारस्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे भृज्ज्यादिति रूपं वक्ष्यति। तदयुक्तम्। संप्रसारणं बाधित्वा परत्वाद्रमागमे कृते भज्र्यादिति प्रसङ्गादित्यत आह– क्ङिति रमागममिति। आशीर्लिङस्तङि सीयुटि रमागमपक्षे आह– भर्क्षीष्टेति. रमभावे तु अकित्त्वात्संप्रसारणाऽभवादाह - भ्रक्षीष्टेति। लुङि परस्मैपदे रमागमविकल्पं मत्वाह - अभार्क्षीत् अभ्राक्षीदिति। आत्मनेपदे सिचि रमागमविकल्पं मत्वाह - अभष्र्ट - अभ्रष्टेति। `झलो झली'ति सिज्लोपः। क्षिप प्रेरणे इति। अनिट्। अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमात्थलि नित्यमिट्।चिक्षेपिथ। एवं कृषधातुरपि।चकर्षिथ। लुटि तासि `अनुदात्तस्य चर्दुपधस्ये'त्यमागमविकल्पः। अमागमाऽभावे गुणे रपरत्वम्। तदाह - क्रष्टा कर्ष्टेति। आशीर्लिङि परस्मैपदे आह - - कृष्यादिति। कित्त्वाज्झलादित्वाऽभावाच्च अमागमो गुणश्च नेति भावः। आशीर्लिङस्तङ्याह - कृक्षीष्टेति। `लिङ्सिचौ' इति कित्त्वादमागमो गुणश्च नेतिभावः। लुङि परस्मैपदे आह - स्पृशमृशेति सिज्वेति। पक्षे इति। सिजभावपक्षे `शलः' इति क्स इत्यर्थः। सिचि अम्वेति। सिच्पक्षे `अनुदात्तस्य चे' त्यमागमविकल्प इत्यर्थः। क्से तु कित्त्वादमागमो नेति भावः। अक्राक्षीदिति।सिचि अमागमे रूपम्। अकार्क्षीदिति। सिचि अमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः। क्सादेशपक्षे आह– अकृक्षदिति। कित्त्वादभागमो गुणश्च ज्ञेयम्। अकृष्टेति। `झलो झली' ति सिज्लोप इति भावः। अकृक्षदिति। कित्त्वादभागमो गुणश्चे नेति भावः। तङीति। तङि सिच्पक्षे अकृष् स् त इतिस्थिते `लिङ्सिचौ' इतिकित्त्वादम्नेत्यर्थः। गुणोऽपि नेति ज्ञेयम्। अकृष्टेति। `झलो झलीटति सिज्लोप इति भावः। अकृक्षतेति। सिज्पक्षे अनतः परत्वाददादेश इति भावः। क्सादेशपक्षे आह– अकृक्षतेति। कित्त्वादम्नेति भावः। अकृक्षन्तेति. क्सादेशपक्षे अ कृक्ष झ इति स्थिते अच्परकत्वाऽभावात् `क्सस्याची'त्यकारलोपाऽभावादतः परत्वाददादेशाऽभावे अन्तादेश इति भावः। ऋषी गताविति। सेट्। आनर्षिथ आनर्षिव। अर्षिता। आर्षीत्। ओ विजी भयेति। सेट्। उद्विजितेत्यादौ लघूपधगुणे प्राप्ते -
319 भ्रस्जो रोपधयोः। रम्यकार उच्चारणार्थः। `र'मित्यस्याऽन्त्यादचः परत्वे `रोपधयो'रिति षष्ठीनिर्देशस्य वैयथ्र्यमाशङ्क्याह– निवृत्तिरिति। अयं भावः- - स्थानिविशेषलाभाय मित्त्वस्य करणान्न रोपधयोः स्थाने रम् भवति। यत्र ह्रनिर्धारितः स्थानषष्ठ\उfffदा निर्दिश्य विधीयते स तत्स्थाने भवति। यथा `इको यणची'त्यादौ यणादिः। प्रकृते तु रमो निर्दिष्टस्तानिकत्वादोपधयोः स्थाने न भवति। एं चास्य आदेशागमत्वे भवति, यथा श्नमः प्रत्ययागमत्वे' इति। अन्ये त्वेतादृग् व्याख्यानमयुक्तमिति मत्वा `सनः क्तिची'त्यतो लोपमनुवत्र्य भ्रस्जो रोपधयोर्लोपः,रम् तु आगम एवेत्याहुः। परे तु– `भ्रस्जो रसरन्यतरस्या'मित्येव सूत्रमस्तु। `रसः– ऋ'इति च्छेदः। `रस' इति रेफाऽकारसकाराणां यः सङ्घातस्तस्य `ऋ' इत्यादेशः स्यादित्यर्थः। ततश्च अक्ङिति भर्जको भर्जनं बभर्जेत्यादि सिध्यति। ऋकाराऽभावपक्षे तु भ्रज्जको भ्रज्जनं बभ्रज्जेत्यादि। क्ङिति तु ऋकारपक्षे भृष्टिः भृज्यादित्यादि। तदभावे संप्रसारणे सति तदेव रूपम्। एवंच बरीभृज्यत इत्यादौ रीको रेफस्य निवृतिं?त वारयितुम् `अनुदात्तोपदेशे' त्यत उपदेशग्रहणमनुवर्त्त्यम्, इदानीं तु नानुवर्त्त्यं, `क्ङिति रमागमं बाधित्वा संप्रसारण'मति पूर्वविप्रतिषेधश्च न कर्तव्य इति महदेव लाघवमित्याहुः। इदं च `रसोर्वचनात्सिद्ध'मिति वार्तिकाशयवर्णनमेव न त्वपूर्वम्। `र्वचना'दित्यस् वा ऋवचनादिति छेदः। भाष्यकारैस्तु `सूत्रं भिद्यते यतान्यासमेवास्तु' इति वदद्भिरस्यां कल्पनायां दुष्टत्वं सूचितं। तच्च मनोरयामां स्पष्टमेव। तथा हि रेफाऽकारसकारसमुदायस्य ऋभावे पञ्च दोषाः। अपिल्लिटि बभर्जुतः बभर्जुरित्यादीष्यते, बभृजतुः बभृजुरित्यादि स्यात्। न चाऽत्र गुणेन निर्वाहः, ऋभावे सति `असंयोगाल्लिट् कि'दिति कित्त्वप्रवृत्त्या तन्निषेधात्। `सनीवन्ते'ति इड्विकल्पाद्विभक्र्षतीत्यादि इष्यते, बिभृक्षतीत्यादि स्यात्। ऋभावे `हलन्ताच्चे'ति सनः कित्त्वप्रवृत्तेः। लिङसिचोस्तङिभर्क्षीष्ट अभर्ष्टेत्यादीष्यते, भृक्षीष्ट अभृष्टेत्यादि स्यात्। `लिङ् सिचावात्मनेपदेषु' इति कित्त्वात्। णिजन्ताच्चङि अबभर्जदितीष्यते। अबीभृजदित्यपि स्यात्। इररारामपवादत्वेन `उरृदिति ऋत्वप्रवृत्तौ `सन्वल्लघुनी'ति सन्वद्भावात् `सन्यतः इतीत्वे `दीर्घो लघो'रिति प्रवृत्तेः। यद्यपि `उरृ'दित्यस्य वैकल्पिकत्वादबभर्जदिति सिध्यत्येव तथापि पक्षे अबीभृजदित्यनिष्टं स्य#आदिति बोध्यम्। `ऋजिभृजी भर्जने' इति भ्वादेस्तादृशं रूपमिष्टमिति चेत्। मैवम्। भर्जनार्थे हि तादृग्रूपमिष्टं न तु पाकसामान्ये। उभयोरेकार्थत्वाभ्युपगमेऽपि प्राचीनाश्चत्वारो दोषास्तु दृढा एव। हि तेऽपि धात्वन्तरेण सुपरिहराः। अपिल्लिटि भृजेरपि धातोर्गुणाऽभावादनुदात्तत्वेन आत्मनेपदित्वाच्च बभर्जतुरित्यादिरूपस्य तेनाऽप्यसिद्धेः। तथा भृजेरुदात्तत्वेन ततः परेषां सन्लिङ्सिचामिडागमध्रौव्यात्- - बिभक्र्षति भर्क्षीष्ट अभर्ष्टेत्यादिरपि तेन न सिध्यति। एतेन `भ्रस्जेर्भृजिरादेश' इति पक्षोऽपि निरस्तः, पूर्वोक्तदूषणगणप्रसङ्गात्। किं च अस्मिन्पक्षे यङ्लुकि अधिको दोषः। वधादेशवत्साभ्यासस्य भृज्ज्यादेशे पुनर्द्विर्वचनस्य दुर्लभत्वात्, स्थानिवत्त्वेनाऽनभ्यासस्येति निषेधात्। स्वीकृतेऽपि द्विर्वचने रुग्रिग्रीकोऽभ्यासस्य स्युरेवेति रुगादिरहितं बाभर्जिता बाभर्जिष्यतीत्यादि रूपं नैव सिध्येत्। यदितु लाघवे पक्षपातेन स्वातन्त्र्यं चिकीष्र्यते तर्हि `भ्रस्जेरसो'रिति पठित्वा रसिति समुदायस्य अरेव विधीयतां, तथा च न कोऽपि दोष इति। अयमत्र सङ्ग्रहः— `रस ऋञ्चेदपिल्लिट्सन्लिङ्सिच्चङ्परणिक्षु ते। दोषो भ्रस्जेर्भृजौ चैवं, दोषो यङ्लुकि चाधिकः। साभ्यासस्य हि भृज्भावो भवेद्धन्तेर्वधिर्यथा। द्वित्वं पुनर्न लभ्येत स्थानिवत्त्वाद्वधेरिव। तस्मादस्तु यथान्यासं, स्वातन्त्र्येऽस्तु रसोरिति'। पूर्वविप्रतिषेधेन। पूर्वविप्रतिषेधेनेति। नित्यत्वादित्यपि सुवचम्। न च संप्रसारणात्पूर्वं धातो रेफस्य, पश्चात्तु रमागमरेफस्येति शब्दान्तरप्राप्त्या संप्रसारणस्य नित्यत्वं नेति शङ्क्यं, लक्ष्यानुरोधेन कृताऽकृतप्रसङ्गित्वेनापि क्वचिन्नित्यत्वस्वीकारात्।
TBD.