TBD.
घ्वादिभ्यः अन्यस्य संयोगादेराकारान्तस्य वा एकारादेशो भवति लिङि परतः। ग्लेयात्, ग्लायात्। म्लेयात्, म्लायात्। अन्यस्य इति किम्? स्थेयात्। संयोगादेः इति किम्? यायात्। क्ङिति इत्येव, ग्लासिष्ट। अङ्गस्य इत्येव, निर्वायात्।
TBD.
496 घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि. ग्लेयात्, ग्लायात्..
215 आशीर्लिङि आत्त्वे कृते ग्ला-यात्-इति स्थिते–वाऽन्यस्य। आद्र्धधातुक इत्यधिकृतम्। `एर्लिङी'त्यनुवर्तते। `ए'रिति प्रथमान्तम्। `आतो लोप इटि चे'त्यत `आत' इत्यनुवर्तते। कस्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिसां हली'ति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते। तदाह–घुमास्थादेरित्यादिना। कतीति। `दीङो युडचि क्ङिती'त्यतस्तदनुवृत्तेरिति भावः। ङितीति तु नानुवर्तते, लिङाद्र्धधातुकस्य ङित्त्वाऽसंभवात्। अग्लासीदिति। `यमरमे'त्यादन्तत्वात्सगिटौ। अग्लासिष्टाम् अग्लासिषुरित्यादि। अग्लास्यत्। म्लायतीति। ग्लैधातोरिव रूपाणीति भावः। द्यै न्यक्करणे।यकारमध्योऽयम्। इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि। `रै शब्दे' इत्यादीनां त्वसंयोगादीनामाशीर्लिङि `वाऽन्यस्य संयोगादे'रित्येत्त्वं न भवति, [तेन] रायादित्यादि रूपमिति विशेषः। स्त्यै ष्ट\उfffदै इति। षोपदेशेषु स्त्यादातोः पर्युदासाद्यो न षोपदेशः। द्वितीयस्तु षोपदेशः। तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः। सत्वे कृते इति। `धात्वादे'रिति षस्य सकारे सति निमित्ताऽपायात् ष्टुत्वनिवृत्तिरिति भावः। तिष्ट\उfffदासतीति। ष्ट\उfffदैधातोः कृतसत्वात्सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि सपि `सन्यङो'रिति द्वित्वे `शर्पूर्वाः खयः' इति सकारयकारनिवृत्तौ `तास्त्यासति' इति स्थिते अभ्यासह्यस्वे `सन्यतः' इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वे `तिष्ट\उfffदासती'ति रूपम्। स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाऽभावात्षत्वं न स्यादिति भावः। अतिष्ट\उfffद्पदिति। ष्ट\उfffदैधातोः कृतसत्वाण्णौ आत्त्वे`अतिह्यी' ति पुकि स्त्यापि इति ण्यन्ताल्लुङि अडागमे तिपि `इतश्च' इति इकारलोपे `णिश्रिद्रुरुआउभ्यः' इति च्लेश्चङि `णेरनिटी'ति णिलोपे `णौ चङ्युपधायाः' इति ह्यस्वे `चङि' इति स्त्यबित्यस्य द्वित्वे `शपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां `सन्यतः' इति इत्वे, इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे, तस्य ष्टुत्वे अतिष्ठ\उfffद्पदितिरूपम्। स्वाभाविकसकारत्वेत्वादेशसकारत्वाऽभावात्षत्वं न स्यादिति भावः। जजौ ससाविति। जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः। ननु `एर्लिङी'त्यत्र `घुमास्थागापाजहातिसा'मित्यनुवृत्त्या सैधातोराशीर्लिङि `साया'दित्यत्र एत्त्वं स्यत्। तथा लुङि सगिटोः–असासात् असासिष्टामित्येव इष्यते। तत्र `विभाषा घ्राधेट्?शाच्छासः' इति स#इचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह– घुमास्थेत्यत्रेत्यादि। स्यतेरिति। `षो अन्तकर्मणि' इति श्यन्विकरणस्येत्यर्थः। अत्र व्याख्यानमेव शरणम्। `विभाषा घ्राधेडि'त्यत्र श्यन्विकरणाभ्यां साहचर्याच्च। पै ओ वै। पायति। वायति। `ओदितश्चे'ति निष्ठानत्वार्थमोदित्त्वम्। ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र `घुमास्थागापाजहातिसां हली'ति ईत्त्वं स्यात्। तथा आशीर्लिङि पायादित्यत्र `एर्लिङी'त्येत्वं स्यात्, तत्रापि `घुमास्थागापाजहातिसा'मित्यनुवृत्तेः, तथा लुङि `अपासी'दित्यत्र `गातिस्थे'ति सिचो लुकि `यमरमे'ति इटोऽभावात्तत्संनियोगशिष्टः सगपि न स्यादित्यत आह—- घुमास्थेतीत्त्वमित्यादिना। पारूपस्येति। उदाह्मतसूत्रत्रये लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्र्रहणं, नतु पैधातोः कृतात्वस्येति भावः। एवं च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम्। लुङि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम्। ष्ट इति। षोपदेशोऽयम्। कृतष्टुत्वनिर्देशः। सत्वे कृते ष्टुत्वनिवृत्तिः। तदाह–स्तायतीति। ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः। सत्वे कृते ष्टुत्वनिवृत्तिः। तदाह– स्नायतीति। दैप्। अघुत्वादिति। घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः। पा पाने। पिबादेश इति। `शिद्विषय' इति शेषः। तस्येति। पिबादेशस्य अदन्तत्वान्न लघूपधगुण इति भाष्ये स्पष्टम्। अनिडयम्। पपौ पपतुः पपुः। भारद्वाजनियमात्थलि वेट्- -पपिथ-पपाथ पपथुः पप। पपौ पपिव पपिम। क्रादिनियमादिट्। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्। आशीर्लिङि `एर्लिङ' इत्येत्त्वमभिप्रेत्याह–पेयादिति। `गातिस्थे'ति सिचो लुगित्यभिप्रेत्याह– आपादिति। अपाताम् अपुः। अपाः अपातम् अपात। अपाम् अपाव अपाम। अपास्यत्। घ्रा। `पाघ्राध्मे'ति शिद्विषये जिघ्रादेशः। तदाह– जिघ्रतीति। अनिडयम्। जघ्रौ जघ्रतुः जघ्रुः। भारद्वाजनियमात्थलि वेट्–जघ्रिथ जघ्राथ जघ्रथुः जघ्र। जघ्रौ जघ्रिव जघ्रिम। क्रादिनियमादिट्। घ्राता घ्रास्यति। जिघ्रतु। अजिघ्रत्। जिघ्रेत्। आशीर्लङि `वाऽन्यस्य संयोगादे' रित्येत्त्वविकल्पं मत्वा आह— घ्रायात् घ्रेयादिति। `विभाषा घ्राधे'डिति सिचो वा लुक्। लुगभावपक्षे आदन्तत्वात्सगिटौ। तदाह– अघ्रात् अघ्रासीदिति। ध्माधातुरनिट्। `पाघ्राध्मे'ति शिद्विषये धमादेशः। तदाह–धमतीति। दध्मौ दध्मतुः दध्मुः। दध्मिथ–दध्माथ, दध्मथुः दध्म। दध्मौ दध्मिव दध्मिम। ध्माता।ध्मास्यति। धमतु। अधमत्। धमेत्। ध्मायात्– ध्मेयात्। अध्मासीत्। अध्मास्यत्। ष्ठाधातुः षोपदेशः कृतष्टुत्वनिर्देशः। शिद्विषये `पाग्रे'ति तिष्ठादेशः। तदाह–तिष्ठतीति। तस्थौ। अधितष्ठावित्यत्र इण्कवर्गाभ्यां परत्वाऽभावेऽपि षत्वमाह– स्थादिष्विति। तस्थतुः तस्थुः। तस्थिथ– तस्थाथ, तस्थथुः तस्थ। तस्थौ तस्थिव तस्थिम। स्थाता। अधिष्ठातेत्यत्र `सात्पदाद्यो'रिति षत्वनिषेधमाशङ्क्याह– उपसर्गादिति षत्वमिति। स्थास्यति। तिष्ठतु। अतिष्ठत्। तिष्ठेत्। आशीर्लिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाऽभावादेत्त्वविकल्पो न, किंतु `एर्लिङी'ति नित्यमेव एत्त्वम्। तदाह–स्थेयादिति। `गातिस्थे'ति सिचो लुक्। अस्थात्। अस्थास्यत्। म्ना इति। अयमप्यनिट्। `पाध्रे'ति शिद्विषये मनादेशः। तदाह–मनतीति। मम्नौ मम्नतुः मम्नुः। मम्निथ–मम्नाथ मम्नथुः मम्न।मम्नौ मम्निव मम्निम। म्नाता। म्नास्यति। मनतु। अमनत्। मनेत्। म्नायात्–म्नेयात्। अम्नासीत्। अम्नास्यत्। दाण् दाने। अयमप्यनिट्। `पाघ्रे' ति शिद्विषयेय यच्छादेशः। प्रणियच्छतीति। `नेर्गदे'ति णत्वम्। ददौ ददतुः ददुः। ददिथ-ददाथ ददथुः दद। ददौ ददिव ददिम। दाता। दास्यति। यच्छतु। अयच्छत्। यच्छेत्। आशीर्लिङि `एर्लिङी'त्येत्त्वं मत्वा आह– देयादिति। `गातिस्थे'ति सिचो लुकं मत्वा आह– अदादिति। ह्व्ट कौटिल्ये। अयमप्यनिट्। ह्वरतीति। शपि गुणे रपरत्वम्।
187 वान्यस्य। अन्यस्य किम् ?। स्थेयात्। द्यै न्यक्करणे। द्यायति। दद्यौ। अद्यासीत्। घुमास्थेत्यत्रेति। व्याख्यानात्तन्त्रान्तरे जहातिस्यतीनामिति श्यना निर्देशाच्चेति भावः। विभाषा घ्रेति। कश्यन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः। एवं शाच्चासेति युग्विधावपि स्येतेरेव ग्रहणमिति बोध्यम्। तेनाऽस्य धातोः `अर्तिह्यी'ति पुगेव। सापयति। पै ओवै। पायति। वायति। शुष्यतीत्यर्थः। `ओदितश्चे'ति निष्ठानत्वम्। वानम्। `शुष्के वानमुबे त्रिषु' इत्यमरः। अदन्तत्वादिति। केचित्तु अङ्गवृत्तपरिभाषयापि गुणाऽभावं समर्थयन्ति। घ्रा गन्धोपादाने। गन्धोपादानं- - गन्धग्रहणम्। नन्वेवं कर्मणो धात्वर्थेनोपसङ्गहाकर्मकत्वेन `जिघ्रति कुसुम'मित्यादि प्रयोगो न सिद्ध्येदिति चेदत्राहुः– यद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसङ्ग्रहस्तस्यैव धातरकर्मकत्वं नान्यस्य। भवति हि जीवति नृत्यतीत्यादेरकर्मकत्वम्। तदर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वात्। घ्राधातोः कर्मणस्त्वतथात्वान्नाऽकर्मकतेति। ध्मा शब्दाग्निसंयोगयोः। शब्दशब्देन तदनुकूलो वायुरिह गृह्रते। तेन शङ्खं धमतीतिवन्मृदङ्गं धमतीति प्रयोगो नेत्याहुः। अग्निसंयोगे–सुवर्णं धमति। अग्निना संयुक्तीत्यर्थः। स्थेयादिति। `एर्लङी'ति नित्यमेत्वम्। लुङि– अस्थात्। म्ना अभ्यासे। मनति विद्याम्। अभ्यस्यतीत्यर्थः। मम्नौ। अम्नासीत्। अदादिति। `गातिस्थे'ति सिचो लुक्।
वृत्ति: घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। The आकारः of a verbal root which begins with a संयोग: (conjunct consonant) and which is other than than the ones listed in 6-4-66 घुमास्थागापाजहातिसां हलि, optionally gets एकारः as replacement, when followed by a आर्धधातुक-लिँङ् affix which is a कित्।
उदाहरणम् – ध्येयात्/ध्यायात् derived from √ध्यै (ध्यै चिन्तायाम् १. १०५६). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
ध्या + लिँङ् (आशिषि) 6-1-45, 3-3-173
= ध्या + ल् 1-3-2, 1-3-3, 1-3-9
= ध्या + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= ध्या + ति 1-3-3, 1-3-9
= ध्या + त् 3-4-100. As per 3-4-116, the affix “त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= ध्या + यासुट् त् 3-4-103, 1-1-46
= ध्या + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= ध्ये/ध्या + यास्त् 6-4-68, 1-1-52. As per 3-4-104, यासुट् is a कित् here. This allows 6-4-68 to apply.
= ध्येयात्/ध्यायात् 8-2-29