TBD.
हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्य इति सङ्घातग्रहणम् एतत्। तत्र अलो ऽन्त्यस्य 1-1-52 इत्येतन् न भवति, अतो लोपः 6-4-48 इति यकारो ऽनेन लुप्यते। सङ्घातग्रहणम् किम्? ईर्ष्यिता। मव्यिता। हलः इति किम्? लोलूयिता। पोपूयिता।
TBD.
718 यस्येति संघातग्रहणम्. हलः परस्य यशब्दस्य लोप आर्धधातुके. आदेः परस्य. अतो लोपः. वाव्रजाञ्चक्रे. वाव्रजिता..
–
398 यस्य हलः। सङ्घातग्रहणमिति। तेन ईर्ष्यिता अहर्यीदित्यादौ यलोपो न। सङ्घातग्रहणेन चाऽर्थवद्ग्रहमपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः। वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवाऽत्र यलोप इति भावः। हलः किम् ?। लोलूयिता। पोपूयिता।
वृत्तिः यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके । When preceded by a consonant, the term “य” takes लोपः when followed by a आर्धधातुकम् affix.
Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning यकारः of the term “य” takes लोपः।
उदाहरणम् – कुटिलं वव्राज = वाव्रजाञ्चक्रे – is a frequentative/intensive form derived from √व्रज् (व्रजँ गतौ १. २८६)
The विवक्षा is लिँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
व्रज् + यङ् 3-1-23
= व्रज् + य 1-3-3, 1-3-9
= व्रज्य् व्रज्य 6-1-9
= व व्रज्य 7-4-60
= वाव्रज्य 7-4-83
“वाव्रज्य” gets धातु-सञ्ज्ञा by 3-1-32
Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
वाव्रज्य + लिँट् 3-2-115
= वाव्रज्य + आम् + लिँट् – वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिटि। Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= वाव्रज् अ + आम् + लिँट् 6-4-49, 1-1-54
= वाव्रज् + आम् + लिँट् 6-4-48
= वाव्रजाम् 2-4-81. Now “वाव्रजाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= वाव्रजाम् + सुँ 4-1-2
= वाव्रजाम् 2-4-81
= वाव्रजाम् + कृ + लिँट् 3-1-40
= वाव्रजाम् + कृ + त 1-3-12, 1-3-63
= वाव्रजाञ्चक्रे