TBD.
स्व सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशे अजन्तानाम् अङ्गानां हन् ग्रः दृशित्येतेषां च चिण्वत् कार्यं भवति वा। यदा चिण्वत् तदा इडागमो भवति। कस्य? स्यसिच्सीयुट्तासीनाम् एव इति वेदितव्यम्। ते हि प्रकृताः। अङ्गस्य तु लक्ष्यविरोधात् न क्रियते। कानि पुनरस्य योगस्य प्रयोजनानि? चिण्वद्वृद्धिर् युक् च हन्तेश्च घत्वं दीर्घश्च उक्तो यो मितां वा चिणीति। इट् च असिद्धस् तेन मे लुप्यते णिर्नित्यश्च अयं वल्निमित्तो विघाती। अजन्तानां तावत् चायिष्यते, चेष्यते। अचायिष्यत, अचेष्यत। दायिष्यते, दास्यते। अदायिष्यत, अदास्यत। शामिष्यते, शमिश्यते, शमयिस्यते। अशामिष्यत, अशमिष्यत अशमयिष्यत। हन् घानिष्यते, हनिष्यते। अघानिष्यत, अहनिष्यत। ग्रः ग्राहिष्यते, ग्रहीष्यते। अग्राहिष्यत, अग्रहीष्यत। ग्रहो ऽलिटि दीर्घः 7-2-37 इति प्रकृतस्य इटो दीर्घत्वम्। दृश् दर्शिष्यते, द्रक्ष्यते। अदर्शिष्यत, अद्रक्ष्यत। सिचि अजन्तानाम् अचायिषाताम्, अचेषाताम्। अदायिषाताम्, अदिषाताम्। अशामिषातम्, अशमिषातम्, अशमयिषाताम्। हन् अघानिषाताम्, अवधिषाताम्, अहसाताम्। ग्रः अग्राहिषाताम्, अग्रहीषाताम्। दृश् अदर्शिषाताम्, अदृक्षाताम्। सीयुटि अजन्तानाम् चायिषीष्त, चेषीष्ट। दायिषीष्ट, दासीष्ट। शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट। हन् घानिषीष्ट, वधिषीष्ट। ग्रः ग्राहिषीष्ट, ग्रहीषीष्ट। दृश् दर्शिषीष्ट, दृक्षीष्ट। तासावजन्तानाम् चायिता, चेता। दायिता, दाता। शामिता, शमिता, शमयित। हन् घानिता, हन्ता। ग्रः ग्राहिता, ग्रहीता। दृश् दर्शिता, द्रष्टा। स्यसिच्सीयुट्तासिषु इति किम्? चेतव्यम्। दातव्यम्। भावकर्मणोः इति किम्? चेष्यति। दास्यति। उपदेशे इति किम्? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति। अज्झनग्रहदृशाम् इति किम्? पठिष्यते। अङ्गाधिकारविहितं कार्यम् इह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति। हनिष्यते, घानिष्यते। एष्यते, आयिष्यते। अध्येष्यते, अध्यायिष्यते। हनो वध लिङि 2-4-42, लुङि च 2-4-43), इणो गा लुङि (*2,4.45), विभाषा लुङ्लृङोः (*2,4.50 इत्येते विधयो न भवन्ति।
TBD.
756 उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च. चिण्वद्भावपक्षेऽयमिट्. चिण्वद्भावाद् वृद्धिः. भाविता, भविता. भाविष्यते, भविष्यते. भूयताम्. अभूयत. भाविषीष्ट, भविषीष्ट..
582 स्यसिच्। अच् हन ग्रह दृश् एषां द्वन्द्वात्षष्ठी। उपदेश इत्च एव विशेषणम्, नेतरेषाम्, अव्यभिचारात्। तदाह— उपदेशे योऽजिति। `अ' जित्यस्यं उपदेशान्वयित्वेऽपि सौत्रः समासः। `अ'जिति लुप्तषष्ठीकं वा। `चिण्व'दिति सप्तम्यन्ताद्वनतिः, `स्यसिच्सीयुट्तासिष्वि'त्युपमेयतः सप्तमीदर्शनात्। तदाह- - चिणीवेति। अङ्गकार्यमिति। अङ्गस्येत्यधिकृतत्वादिति भावः। `भावकर्मवाचिषु स्यादिष्वि' ति नार्थः,सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाऽभावात्। नापि `भावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेष्वि'त्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात्। सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति। अतो विषयसप्तमीति मत्वाऽऽह- - स्यादीनामिडागमश्चेति। अत्र अज्झनग्रहदृशां, स्यादीनां च न यथासङ्ख्यं, व्याख्यानात्। `स्यादिषु परेषु अङ्गस्य इ' डिति नार्थः, `आद्र्धधातुकस्येड्वलादे' रित्यत्र `आद्र्धधातुके' इति योगं विभज्य `यावानिट् स आद्र्धधातुकस्यैवे'ति भाष्ये उक्तत्वात्। चिणि यदङ्गाधिकारविहितं कार्यं तस्यैवात्रातिदेशो, न तु चिणि दृष्टमात्रस्य। तेन `घानिष्यते' इत्यत्र `हनो वध लिङि, लुङि चे'ति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाऽभावात्। तथा आयिष्यते इत्यत्र इणो गादेशो न। `अध्यायिष्यते' इत्यत्र इङो गाङादेशो न , द्वैतीयीकत्वात्। चिण्वत्त्वाऽभावे अयमिण्नेत्याह– अयमिडिति। सेट्कस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः। ननु भूयेतेति विधिलिङि चिम्वत्वम् इट् च स्यातामित्यत आह– इहाद्र्धधातुके इति। नेतरेषामिति। स्यसिच्तासीनां न विशेषणमित्यर्थः। अव्यभिचारादिति। स्यसिच्तासीनां सर्वत्राऽऽद्र्धधातुकत्वनियमादिति भावः। अत्र वार्तिकम्– `चिण्वद्वृद्धिर्युक्च हन्तेश्च घ्तवं दीर्घश्चोक्तो यो मितां वा चिणीति। इट्वाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥' इति। स्यसिच्सीयुडिति सूत्रस्य वृद्ध्यादि प्रयोजनमित्यर्थः। तत्र वृदिं?ध दर्शयति– चिण्वद्भावाद्वृद्धिरिति। लुटि भू ता इति स्थिते चिण्वत्त्वात् `अचोऽञ्णिती'ति वृद्धिरित्यर्थः। इडागमश्चेत्यपि बोध्यम्। तत्फलं तु वक्ष्यते। तथा दाधातोर्लुटि `आतो युक् चिण्कृतो' रिति युक्। तथा लृटि `घानिष्यते' इत्यत्र `होहन्तेर्ञ्णिन्नेषु' इति घत्वम्। शमेर्हेतुमण्ण्य्नताल्लुटि–शामिता शमितेत्यत्र `चिण्णमुलो'रिति वा दीर्घः। तथा अनेनैवाऽत्र इटि कृते तस्य आभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपः। तथा `भाविष्यते' इत्यत्र भू-स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट्, वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताऽकृतप्रसङ्गित्वात्। वलादिलक्षणस्त्विण्न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षमस्य इटोऽप्रवृत्तेः। नित्यश्चायमित्यस्य `चिण्वदि'डिति शेषः। `वल्निमित्त इत्यनन्तरम् `इडनित्य इत शेषः। अनित्यत्वे हेतुः– `विघातीति। चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः। एवं च सेट्कत्वेऽप्यनेनैव इट्। एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम्। तदाह– भवितेति। चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः।
478 स्यसिच्?सीयुट्?तासिषु। यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यच एव विशेषणं न हनादीनाम्, अव्यभिचारात्तदाह–उपदेशेयोऽजिति। `उपदेशे अजन्ताना'मिति न व्याख्यातम्। तथाहि सति णिजन्तस्य न स्यात्, तस्योपदेशाऽभावात्। उपदेशो हि साक्षादुच्चारण्। न च ण्यन्तस्य तदस्ति। चिण्वदिति सप्तम्यन्ताद्वतिः,
व्याचष्टे—चिणीवेति। ननु च चिणि दृष्टमात्रस्य वृद्ध्यादिकार्यस्याऽतिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनोवधादेशः,इणो गादेशः,इङो गाङादेशोऽपिस्यादिति चेत्। मैवम्। अङ्गाधिकारबलेन आङ्गस्यैव कार्यस्यातिदेशात्। न चैते हनिणिङादेशा आङ्गाः, तदेतदाह–अङ्गकार्यं वा स्यादिति। सीयुट इति। तथा च सीयुट् शब्देन तद्विशिष्टं लक्ष्यत इति भावः। आद्र्धातुकं इत्यनेन व्यावर्त्त्यस्तु विधिलिङ्। तेन भूयेतेत्यत्र न भवति। न चाऽत्र `लिङः सलोपः' इति सलोपाद्वलादित्वं नास्तीति वाच्यं, तस्येहानपेक्षणात्। यदाहुः- - `चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति। इट् चाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती।' इति। अस्यार्थः- - `चिण्व' दित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम्। तथा हि `भाविता' `भाविष्यते' इत्यादौ वृद्धिः। `दायिता' `दायिषीष्टे' इत्यादौ युक्, `घानिता' घानिष्यते' इत्यादौ घत्वम्। हेतुमण्ण्यन्तात्कर्मणिल लकारे `शामिता' `शमिता' `शामिष्यते' `शमिष्यते' इत्यादौ चिण्णमुलोरिति, मितामुपधाया वा दीर्घः। अत्रैव श#आमितेत्यादौ `स्यसिच्?सीयु'डित्यनेन कृत इट् आभीयत्वेनाऽसिद्धः, तेनाऽनिटीति निषेधो न प्रवर्तत इति णेर्लोपो भवति। `भाविष्यते' इत्यादौ भू–स्य इति स्थिते परमपि वलादिलक्षणमिटं बाधित्वा चिण्वदिडेव भवति। यतोऽयं नित्यः। विल्नमितो विघाती त्वनित्यः। साप्तमिके तस्मिन्कृतेऽयं चिण्वदिड्भवति। अस्मिन्कृते तु स न भवति। वलादिनिमित्तस्य विहितत्वात्। एवं च नित्यत्वात्सेड्भयोऽप्यपयमेवेड्भवति। एतदभावपक्षे तु सेड्भयो वलादिलक्षण इड्भवतीति बोध्यम्।
वृत्ति: उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। (चिण्वद्भावपक्षेऽयमिट्।) In the passive voice, when followed by the affix “स्य”, “सिँच्”, “सीयुट्” or “तासिँ”, a base (अङ्गम्) optionally undergoes the same operations as when “चिण्” follows, if the base consists of one of the following verbal roots:
i. Any verbal root when ends in a vowel which is in उपदेश: (original instruction – which here means सूत्रपाठ:/धातुपाठ:)
ii. √हन् (हनँ हिंसागत्योः #२. २)
iii. √ग्रह् (ग्रहँ उपादाने ९. ७१)
iv. √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
In this optional case, the affix “स्य”, “सिँच्”, “सीयुट्” or “तासिँ” necessarily takes the “इट्”-आगम:।
उदाहरणम् – भाविष्यते/भविष्यते derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँट्, कर्मणि/भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
भू + लृँट् 3-3-13
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= भू + ते 3-4-79
= भू + स्य + ते 3-1-33
= भौ + इट् स्य + ते 6-4-62, 1-1-46, 7-2-115
= भौ + इस्य + ते 1-3-3, 1-3-9
= भाविस्यते 6-1-78
= भाविष्यते 8-3-59
When 6-4-62 is not applied the form is भविष्यते। Thus there are two forms भाविष्यते/भविष्यते।