Table of Contents

<<6-1-66 —- 6-1-68>>

6-1-67 वेरपृक्तस्य

प्रथमावृत्तिः

TBD.

काशिका

लोपः इति वर्तते। वेः इति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्तस्य लोपो भवति। ब्रह्मभ्रूणवृत्रेषु क्विप् 6-2-87। ब्रह्महा। म्रूणहा। स्पृशो ऽनुदके क्विन् 6-2-58)। घृतस्पृक्। तैलस्पृक्। भजो ण्विः (*3,2.62। अर्धभाक्। पादभाक्। तुरीयभाक्। अपृक्तस्य इति किम्? वृदृभ्यां क्विन् दर्विः। कृगृशृसृजागृभ्यः क्वि। जागृविः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

305 अपृक्तस्य वस्य लोपः..

बालमनोरमा

वेरपृक्तस्य। लोपो व्योः' इत्यतो `लोप' इत्यनुवर्तते। उत्सृष्टानुबन्धाः। सरक्वे क्विबादयो `वे'रित्यनेन गृह्रन्ते। इकार उच्चारणार्षथः, अपृक्तग्रहणात्, तदाह– अपृक्तस्य वस्येति। अपृक्तस्येति किम् ?। जागृविः। क्विनः कृत्संज्ञायाः प्रयोजनमाह–कृत्तद्धितेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

218) वेरपृक्तस्य 6-1-67

वृत्ति: अपृक्तस्य वस्य लोपः। The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः।
Note: “वे:” in the सूत्रम् is षष्ठी-विभक्ति: of the प्रातिपदिकम् “वि”. The इकार: in “वि” is only for the sake of pronunciation (उच्चारणार्थ:) – so only वकार: is implied by “वि”.

Example continued:

The entire क्विँन्-प्रत्ययः takes लोपः as follows – The ककार:, इँकार: and नकार: are removed using the usual rules 1-3-8, 1-3-2 and 1-3-3 along with 1-3-9. After this only the single letter वकार: remains. It is also removed by 6-1-67.

Even though, the entire क्विँन्-प्रत्यय: has gone away, as per 1-1-62, it leaves its लक्षणम् (mark) behind. So now, ऋत्विज् gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.