Table of Contents

<<3-2-58 —- 3-2-60>>

3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च

प्रथमावृत्तिः

TBD.

काशिका

ऋत्विगादयः पञ्चशब्दाः क्विन्प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते। ऋतुशब्द उपपदे यजेर् धतोः क्विन् प्रत्ययो निपात्यते। ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक्। रूढिरेषा यथा कथंचिदनुगन्तव्या। धृषेः क्विन् प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते। धृष्णोति इति दधृक्। सृजेः कर्मणि क्विन्, अमागमः च निपात्यते। सृजन्ति तम् इति स्रक्। दिषेः कर्मणि क्विन् निपात्यते। दिशन्ति ताम् इति दिक्। उत्पूर्वात् स्निहेः क्विन्, उपसर्गान्तलोपः, षत्वं च निपात्यते। उष्णिक्। अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्विन् प्रत्ययो भवति। निपातनैः सह निर्देशातत्र अपि किंचिदलाक्षणिकं कार्यम् अस्ति। अञ्चतेः सुब्नतमात्र उपपदे क्विन् प्रत्ययो भवति। प्राङ्। प्रत्यङ्। उदङ्। युजेः क्रुञ्चेश्च केवलादेव। युङ्, युञ्जौ, युञ्जः। सोपपदात् तु सत्सूद्विष 3-2-61 इत्यादिना क्विप् भवति। अश्वयुक्, अश्वयुजौ, अश्वयुजः। क्रुङ्, क्रुञ्चौ, क्रुञ्चः। नलोपः कस्मान् न भवति? निपातनसाहचर्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

303 एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते. कनावितौ..

बालमनोरमा

अथ जान्ताः। अथ युज्शब्दस्य व्युत्पतिं?त दर्शयितुमाह-ऋत्विग्दधृक्। `धातो'रित्यधिकृतं। `स्पृशोऽनुदके क्विन्' इत्यतः क्विन्नित्यनुवर्तते। पञ्चम्यर्थे षष्ठी। तदाह-एभ्य इति। ऋतौ उपपदे यज्धातोः, धृष्धातोः, सृज्धातोः, दिश्धातोः ष्णिधातोः, अञ्चुधातोः, युज्धातोः, क्रुञ्च्धातोश्चेत्यर्थः। ननु ऋत्विक्, दधृगित्यादौ कुत्वद्वित्वादि कुत इत्यत आह–अलाक्षणिकमपीति। लक्षणानि=सूत्राणि तद्विहितं कार्यं लाक्षणिकम्। सूत्रतः प्रतय्क्षानुपदिष्टमपि कार्यं निपातनात्सिद्धरूपनिर्देशाल्लभ्यत इत्यर्थः। तत्र ऋतावुपपदेः यजेः क्विन्। तस्य कित्त्वात् `वचिस्वपियजादीना'मिति संप्रसारणं, `व्रश्चे'ति षत्वापवादः कुत्वं च। धृषेः क्विनि द्वित्वमन्तोदात्तत्वं च। सृजेः क्रमणि क्विन्, अमागमश्च। दिशेः कर्मणि क्विन्। उत्पूर्वात्स्निहेः क्विन्, उदोदलोपः, षत्वं च। अञ्चेः सुप्युपपदे क्विन्। युजे केवलात् क्विन्। क्रुञ्चेः क्विन्, नलोपाऽभावश्च निपात्यते। यद्यपि अञ्चे केवलस्यैवोपादानं तथाप्युष्णिक्शब्दसाहचर्यात्सोपपदस्यैवाञ्चेग्र्रहणमित्याहुः। निरुपपदादिति। क्विन्विधिफलं हि नुमो नस्य कुत्वमेव। नुम् च असमासे एव वक्ष्यते। समासे तु सुयुगित्यादौ जस्य `चोः कु'रिति कुत्वेनैव सिद्धतया क्विनि क्विपि च विशेषाऽभावादिति भावः। कनाविताविति। `लशक्वतद्धिते' इति हलन्त्य'मिति च सूत्राभ्या'मिति शेषः। वकारादिकारस्तूच्चारणार्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: एभ्यः क्विन् स्यात्। The five terms “ऋत्विज्”, “दधृष्”, “स्रज्”, “दिश्” and “उष्णिह्” are given as ready-made forms ending in the affix क्विँन्। Also, when the verbal root √अञ्च् (“अञ्चुँ” गतिपूजनयोः १. २१५) has a सुबन्त-उपपदम् or when √युज् (युजिँर् योगे ७. ७) and √क्रुञ्च् (क्रुञ्चँ कौटिल्याल्पीभावयोः १. २१३) have no उपपदम्, the affix क्विँन् is used. When the affix is used after √क्रुञ्च्, the verbal base does not take नकार-लोपः।

उदाहरणम् – “ऋत्विज्” is given as a ready-made form ending in the क्विँन् affix.

Example continued below.