Table of Contents

<<6-4-113 —- 6-4-115>>

6-4-114 इद् दरिद्रस्य

प्रथमावृत्तिः

TBD.

काशिका

दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति। दरिद्रितः दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलि इत्येव, दरिद्रति। क्ङिति इत्येव, दरिद्राति। दरिद्रातेरार्धधातुके लोपो वक्तव्यः। सिद्धश्च प्रत्ययविधौ भवति इति वक्तव्यम्। दरिद्राति इति दरिद्रः। आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति। न दरिद्रायके लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा। अद्यतन्यां वेति वक्तव्यम्। अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वम् द्रष्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

312 इद्दरिद्रस्य। सौत्रो ह्यस्वः। `गमहने'त्यतः क्ङितीत्यनुवर्तते। `ई हल्यघो'रित्ते हलीति, `अत उदि'त्यतः सार्वधातुके इति। तदाह– दरिद्रातेरिति। `श्नाभ्यस्तयो'रित्याल्लोपाऽपवादः। अलोऽन्त्यस्ये'त्यन्त्यस्य इकारः। दरिद्रित इति। `सार्वधातकमपि'दितितसो ङित्त्वादाकारस्य इकारः।

तत्त्वबोधिनी

272 इद्दरिद्रस्य। `इद्दरिद्र' इतिवक्तुमुचितम्।

Satishji's सूत्र-सूचिः

TBD.