Table of Contents

<<6-3-93 —- 6-3-95>>

6-3-94 तिरसस् तिर्यलोपे

प्रथमावृत्तिः

TBD.

काशिका

तिरसित्येतस्य तिरि इत्ययम् आदेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदे ऽलोपे, यदा अस्य लोपो न भवति। तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः। अलोपे इति किम्? तिरश्चा। तिरश्चे। अचः इत्यकारलोपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

342 अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः. तिर्यङ्. तिर्यञ्चौ. तिरश्चः. तिर्यग्भ्याम्.. ,

बालमनोरमा

तिरसस्तिर्यलोपे। `तिरि' इति लुप्तप्रथमाकम्। ``अञ्चतावप्रत्यये' इत्यनुवर्तते। न विद्यते `अचः' इत्यल्लोपो यस्य स `अलोपः', तस्मिन्निति विग्रहः। तदाह– अलुप्तेत्यादिना। तिर्यङिति। तिरः-अञ्चतीति विग्रहे क्विन्नादि। तिरसस्तिर्यादेशे यण्। तिरश्च इति। शसादावचि `अचः' इत्यल्लोपसत्त्वान्नतिर्यादेशः। सस्य श्चुत्वेन श इति भावः।

तत्त्वबोधिनी

375 तिरसः। न विद्यते लोपो यस्य सः `अलोप'इति बहुव्रीहिः। अञ्चतावित्यनुवत्र्तमानमन्यपदार्थः। अवयवद्वारकश्च लोपः समुदाये उपचर्यत इत्यभिप्रेत्याह—अलुप्ताकार इत्यादि। `अकारलोपे सती'ति नोक्तं, व्याख्यानात्। अप्रत्ययान्ते किम्?, `तिरोऽञ्चन'मित्यादौ मा भूत्। तिरश्च इथि। लुप्ताऽकारत्वात्तिर्यादेशाऽभावे सस्य श्रुत्वेन शः। न चाऽल्लोपस्य स्थानिवत्त्वात्। श्चुत्वं न स्यादिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्पदान्तविधित्वाच्च।

Satishji's सूत्र-सूचिः

237) तिरसस्तिर्यलोपे 6-3-94

वृत्ति: अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात्। तिरस् gets तिरि as its replacement, when it is followed by the verb अन्चुँ that ends in a affix having a वकार:। This substitution does not take place when the अकारः of अन्चुँ takes लोपः।

उदाहरणम् – तिरस् अच् + सुँ 4-1-2 = तिरि अच् स् 1-3-2, 6-3-94 = तिरि अनुँम्च् स् 7-1-70, 1-1-47 = तिरि अन्च् स् 1-3-2, 1-3-3 = तिरि अन्च् 6-1-68 = तिर्यन्च् 6-1-77 = तिर्यन् 8-2-23 = तिर्यङ् 8-2-62.