Table of Contents

<<6-3-92 —- 6-3-94>>

6-3-93 समः समि

प्रथमावृत्तिः

TBD.

काशिका

सम् इत्येतस्य समि इत्ययम् आदेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे। सम्यक्, सम्यञ्चौ, सम्यञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

340 वप्रत्ययान्तेऽञ्चतौ. सम्यङ्. सम्यञ्चौ. समीचः. सम्यग्भ्याम्.. ,

बालमनोरमा

समः समि। `समी'ति लुप्तप्रथमाकम्। `अञ्चतावप्रत्यये' इत्यनुवर्तते। तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे–अप्रत्ययेति। समीच इति। `अचः' इति लोपे `चौ' इति दीर्घः।

तत्त्वबोधिनी

373 समः समि। `समी'त्यविभक्तितो निर्देशः। एवं `तिरसस्तिरी'त्यपि। सङ्गतमञ्चतीति– सम्यङ्। समीच इति। अल्लोपे `चौ' इथि दीर्घः। सह अञ्चतीति।

Satishji's सूत्र-सूचिः

236) समः समि 6-3-93

वृत्ति: वप्रत्ययान्तेऽञ्चतौ परे समः सम्यादेशः स्यात्। सम् gets समि as its replacement when it is followed by the verb अन्चुँ that ends in a affix having a वकार:।

उदाहरणम् – सम् अन्च् – this gets the क्विँन्-प्रत्ययः by 3-2-59. क्विँन् takes सर्वापहारलोपः by 1-3-2, 1-3-3, 1-3-8, 6-1-67. Now, since क्विँन् is a कित्-प्रत्ययः, by 6-4-24, the उपधा-नकारः of अन्च् takes लोपः to give सम् अच्. By 6-3-93, सम् gets the समि-आदेशः to give समि + अच्।