Table of Contents

<<8-2-61 —- 8-2-63>>

8-2-62 क्विन्प्रत्ययस्य कुः

प्रथमावृत्तिः

TBD.

काशिका

पदस्य इति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालो ऽन्त्यस्य कवर्गादेशो भवति। स्पृशो ऽनुदके क्विन् 3-2-58। घृतस्पृक्। हलस्पृक्। मन्त्रस्पृक्। क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्। क्विन् प्रत्ययो यस्माद् विहितस् तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक्। सृजिदृशिभ्यां हि क्विन् विहितः, तयोर् लुङि कुत्वम् एतत्। माङ्योगे ऽपि छन्दसत्वादडागमः। ईट् च न भवति, बहुलं छन्दसि (*7.3.97) इति। तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्याम् इत्यत्र अपि कुत्वं प्राप्नोति। अथ तु न इष्यते, प्रतिविधानं कर्तव्यम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

306 क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते. अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्. ऋत्विक्, ऋत्विग्. ऋत्विजौ.ऋत्विग्भ्याम्..

बालमनोरमा

क्विन्प्रत्ययस्य कुः। `पदस्ये'त्यधिकृतम्। `झलाञ्जशोऽन्ते' इत्यतेऽन्त इत्यनुवर्तते। क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः। क्विन्नन्तस्येति तु नार्थः, तथासति `क्विनः कु'रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात्। तदाह–क्विन्प्रत्ययो यस्मादित्यादिना। बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते। कुरिति कवर्गो गृह्रते, उदित्त्वात्। अणिदित्सूत्रे `अप्रत्यय' इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामथ्र्यात्। तेन कुरिति विधायमानोपि सवर्णग्राहकः। ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात्। अत आह– नस्येति। नासिकास्थानत आन्तर्यादिति भावः। युङिति। `युजिर् योगे।' रूधादिः। युनक्तीति युङ्। नुमि कृते तदीयनकारस्य `चोः कुः' इति कुत्वं न प्रानोतीति `क्वन्प्रत्ययस्ये'त्यारम्भः। अथ औजसादिषु विशेषमाह–नश्चेति। नुम इति। `युजेरसमासे' इति विहितस्ये'ति शेषः। परसवर्ण इति। `अनुस्वारस्य ययी'ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः। तेन युञ्जावित्यादि सिद्धम्। नन्विह ञकारस्य झलि जकारे परे `चोः कु'रिति कुत्वं कुतो न स्यादित्यात आह–तस्येति। परसवर्णस्येत्यर्थः। युग्भ्यामिति। `स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः।

तत्त्वबोधिनी

337 क्विन्प्रत्ययस्य। क्विनः कु ' रित्युक्तेऽपि प्रत्ययग्रहणे तदन्तग्रहणात्क्किन्नन्त्स्य ग्रहणे सिद्धे प्रत्ययग्रहणं बहुव्रीहिविज्ञानार्थमित्याशयेन व्याचष्टे–क्विन्प्रत्ययो यस्मादितिष।बहुव्?रीह्राश्रयणफलं तु `स्पृ'गित्यादि स्फुटीबविष्यति।

Satishji's सूत्र-सूचिः

वृत्ति: क्विन्-प्रत्ययो यस्मात् तस्य कवर्गोऽन्तादेशः स्यात् पदान्ते। The terms that can take the affix क्विँन्, take the क-वर्ग: consonants as a replacement for their last letter, when they occur at the end of a पदम्।

Example completed:
ऋत्विज् + सुँ = ऋत्विज् 1-3-2, 6-1-68 = ऋत्विग् 8-2-62 = ऋत्विक्, ऋत्विग् 8-4-56.