Table of Contents

<<6-3-91 —- 6-3-93>>

6-3-92 विष्वग्देवयोश् च टेरद्र्यञ्चतौ वप्रत्यये

प्रथमावृत्तिः

TBD.

काशिका

विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेः अद्रि इत्ययम् आदेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे। दिष्वगज्चति इति विष्वद्र्यङ्। देवद्र्यङ्। सर्वनाम्नः तद्र्यङ्। यद्र्यङद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृते उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य 8-2-4 इत्येष स्वरो भवति। विष्वग्देवयोः इति किम्? अश्वाची। अञ्चतौ इति किम्? विष्वग्युक्। वप्रत्यये इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणम् अन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेन अयस्कृतम्, अयस्कारः इत्यत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति। छन्दसि स्त्रियां बहुलम् इति वक्तव्यम्। विश्वाई च घृताची च इत्यत्र न भवति। कद्रीची इत्यत्र तु भवत्येव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.