Table of Contents

<<3-3-107 —- 3-3-109>>

3-3-108 रोगाऽख्यायं ण्वुल् बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

रोगाख्यायां गम्यमानायां धातोः ण्वुल् प्रत्ययो बहुलं भवति। क्तिन्नादीनाम् अपवादः। आख्याग्रहणं रोगस्य चेत् प्रत्ययान्तेन संज्ञा भवति। बहुलग्रहणं व्यभिचरार्थम्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। न च भवति। शिरोर्तिः। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः। आशिका। शायिका वर्तते। इक्श्तिपौ धातुनिर्देशे। भिदिः। छिदिः। पचतिः। पठतिः। वर्णात् कारः। निर्देश इति प्रकृतम्। अकारः। इकारः। रादिफः। रेफः। मत्वर्थाच् छः। अकारलोपः। मत्वर्थीयः। इणजादिभ्यः। आजिः। आतिः। आदिः। इक् कृष्यादिभ्यः। कृषिः। किरिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1567 रोगाख्या। धातोर्बहुलं ण्वुल् स्यात्प्रत्ययान्तं चेद्रोगस्यसंज्ञा। क्तिन्नादीनामपवादः। प्रच्छर्दिकेति। छर्द वमने। प्रवाहिकेति। प्रवाहयति = मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका = ग्रहणी। विचर्चिकेति। चर्च अध्ययने। प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः। `पाम पामा विचर्चिका' इत्यमरः। शिरोर्तिरिति। शिरःपीडा। अर्द हिंसायात्। `तितुत्रे'ति नेट्। धात्वर्थनिर्देश इति। क्रियानिर्देश इत्यर्थः। आसिका। शायिकेति। आसनं, शयनमित्यर्थः। इक्?श्तिपौ। धातोर्निर्देशः- अनुकरणम्। बहुलमित्यनुवृत्तेः क्वचिन्न। `गुप्तिज्किद्भ्यः सन्' `भुवो वुग्लुङ्लिटोः'। पचतिरिति। `उपसर्गात्सुनोति सुवतिस्यति' `ध्यायतेः संप्रसारमं चे'त्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शबादयः। एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्, `विभषा लीयतेः' इति यथा। तत्र हि `लीलीङोर्यका निर्देशो, न तु श्यने'त्युक्तम्। यत्तु प्राचा `श्तिपः शित्करणसामथ्र्याच्छबादय' इत्युक्तम्। तन्न। पिबतिर्ग्लायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या , आत्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात्। वर्णादिति। वर्णानुकरणादित्यर्थः। न तु वर्णादुच्चार्यमाणादिति। तथा हि सत्यकार इत्यादावेव स्यान् तु ककार इत्यादौ। अत्र हि सङ्घातस्योच्चारणात्। अनुकार्यं त्विह वर्णमात्रम्, अकारत्सङ्घातादपि भवति, `उच्चैस्तरां वा वषट्?कारः' इति सूत्रनिर्देशात्। `सर्वे चकाराः प्रत्याख्यायन्ते' भाष्यप्रयोगाद्बहुलवचनाच्चेति। इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वदिकारस्थत्वात्कृत्संज्ञा। तेन कृदन्तत्वात्प्राप्तिपदिकत्वम्। प्रयोजनाऽभावन्न ककारस्येत्संज्ञा। आद्र्धधातुकत्वाऽभावादिडागमो न। `अस्य च्वौ' इत्यादौ तु कारप्रत्ययाऽभावो बाहुलकादेव। रादिफः। वाऽसरूपविधिना कारोऽपि। तेन `रकारादीनि नामानि शृण्वतो मम पार्वति' इत्यादि प्रयोगः साधुरेव। अकारलोप इति। अतद्धतपरत्वादभत्वाच्च `यस्ये'ति लोपस्याऽप्राप्तिरिति भावः। कृदन्तत्वात्प्राप्तपदिकत्वमिह पूर्ववद्बोध्यम्। `तसौ मत्वर्थे' इत्यत्र बाहुलकाच्छो न। `शैषकान्मतुबर्थीया'दित्यत्र तु बाहुलकादेव मतुबर्थशब्दाच्छः। अन्ये तु नैतत्कृदन्तं, मत्वर्थे भव इति विगृह्र गहादित्वाच्छप्रत्यये तद्धितान्तमेवेत्याहुः। इणजा। धात्वर्थनिर्देशे प्राप्तस्य ण्वुलऽपवादोऽयम्।एवमग्नेऽपि। आजिरिति। बाहुलकादजेर्वीभावो न।

Satishji's सूत्र-सूचिः

366) वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्। under 3-3-108
The affix “इक्” as also the affix “श्तिप्” may be used by पाणिनि: to make reference to a धातु: (verbal root.)

उदाहरणम् – in 2-4-72 अदिप्रभृतिभ्यः शपः, पाणिनि: has used “अदि” to refer to √अद् (अदँ भक्षणे, धातु-पाठः #२. १)।
अद् + इक् 3-3-108 वार्त्तिकम्
= अदि 1-3-3

उदाहरणम् – in 8-2-19 उपसर्गस्यायतौ, पाणिनि: has used “अयति” to refer to √अय् (अयँ- [गतौ] १. ५४६)। Note: अयतौ is सप्तमी-एकवचनम् of the प्रातिपदिकम् “अयति”।
अय् + श्तिप् 3-3-108 वार्त्तिकम्। श्तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113
= अय् + शप् + श्तिप् 3-1-68
= अय् + अ + ति 1-3-8, 1-3-3
= अयति
Note: The use of “श्तिप्” to refer to a धातु: does not necessarily imply that the धातु: being referred to is परस्मैपदी। √अय् (अयँ- [गतौ] १. ५४६) is आत्मनेपदी।