Table of Contents

<<3-3-106 —- 3-3-108>>

3-3-107 ण्यासश्रन्थो युच्

प्रथमावृत्तिः

TBD.

काशिका

ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्याम् च स्त्रियाम् युच् प्रत्ययो भवति। अकारस्य अपवादः। कारणा। हारणा। आसना। श्रन्थना। कथम् आस्या? ऋहलोर् ण्यत् 3-1-124 भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्य एव उत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते श्रन्थ विमोचनप्रतिहर्षयोः इति , न चुरादिः श्रन्थ ग्रन्थ सन्दर्भे इति। ण्यन्तत्वेन एव सिद्धत्वात्। घट्टिवन्दिविधिभ्य उपसङ्ख्यानम्। घट्टना। वन्दना। वेदना। घट्टेः भौवादिकस्य ग्रहणं घट्ट चलने इति, न चुअरादिकस्य, तस्य णेः इत्येव सिद्धत्वात्। इषेरनिच्छार्थस्य युज् वक्तव्यः। अध्येषणा। अन्वेषना। परेर्वा। पर्येषना, परीष्टिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

872 अकारस्यापवादः. कारणा. हारणा..

बालमनोरमा

तत्त्वबोधिनी

1566 आसनेति। आस्यतेऽस्यामिति विग्रहः। `ऋहलोण्र्य'दिति ण्यत्प्रत्यये त्वास्या। न च स्त्रीप्रत्यये वाऽसरूपविधिर्नेति शङ्क्यम्, अपवादस्य युचः स्त्रीप्करणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात्। घट्टिवन्दि। विदिर्लाभार्थो गृह्रते। ज्ञानार्थस्य तु संवित्तिः। इषेरिति। अनिच्छार्थस्य युच्। इच्छार्थस्य् त्विषेरिच्छेत्येव।

Satishji's सूत्र-सूचिः

Video

3-3-107 ण्यासश्रन्थो युच् ।

वृत्तिः ण्यन्तेभ्य आस श्रन्थ इत्येताभ्यां च स्त्रियां युच् । Following verbal roots which end in the affix 'णि' as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix युच् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix 'अ' prescribed by 3-3-102 (in the case of verbal roots which end in the affix 'णि') and 3-3-103 (in the case of verbal roots √आस् and √श्रन्थ्)।

उदाहरणम् - अर्चनमर्चना derived from the verbal root √अर्च् (अर्चँ पूजायाम् १०. ३४०).

अर्च् + णिच् 3-1-25
= अर्च् + इ 1-3-3, 1-3-7, 1-3-9
= अर्चि । 'अर्चि' gets the धातु-सञ्ज्ञा by 3-1-32.

अर्चि + युच् 3-3-107
= अर्चि + यु 1-3-3, 1-3-9
= अर्चि + अन 7-1-1, 1-1-55
= अर्च् + अन 6-4-51
= अर्चन + टाप् 4-1-4
= अर्चन + आ 1-3-3, 1-3-7, 1-3-9
= अर्चना 6-1-101. 'अर्चना' gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् - कामनं कामना derived from the verbal root √कम् (कमुँ कान्तौ १. ५११).

कम् + णिङ् 3-1-31
= कम् + इ 1-3-3, 1-3-7, 1-3-9
= काम् + इ 7-2-116
= कामि । 'कामि' gets the धातु-सञ्ज्ञा by 3-1-32.

कामि + युच् 3-3-107
= कामि + यु 1-3-3, 1-3-9
= कामि + अन 7-1-1, 1-1-55
= काम् + अन 6-4-51
= कामन + टाप् 4-1-4
= कामन + आ 1-3-3, 1-3-7, 1-3-9
= कामना 6-1-101. 'कामना' gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् - उपासनमुपासना derived from the verbal root √आस् (आसँ उपवेशने २. ११) with the उपसर्ग: 'उप'।

उप आस् + युच् 3-3-107
= उप आस् + यु 1-3-3, 1-3-9
= उप आस् + अन 7-1-1, 1-1-55
= उप आसन + टाप् 4-1-4
= उप आसन + आ 1-3-3, 1-3-7, 1-3-9
= उपासना 6-1-101. 'उपासना' gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.