Table of Contents

<<8-2-18 —- 8-2-20>>

8-2-19 उपसर्गस्य अयतौ

प्रथमावृत्तिः

TBD.

काशिका

अयतौ परतः उपसर्गस्य यो रेफः तस्य लकारः आदेशो भवति। प्लायते। पलायते। अत्र च यो ऽयम् एकादेशः, तस्य स्थानिवद्भावादयतेः उपसर्गस्य च विभागे सति, यदि अयतिग्रहणं रेफस्य विशेषणम्, तदा येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति एकेन वर्णेन व्यवधाने ऽपि लत्वं भवति। तथा च पल्ययते इत्यत्र अपि भवति। उपसर्गविशेषणे तु अयतिग्रहणे सिद्धम् एव एतत् सर्वम्, प्रतेरपि तु व्यवहिते ऽपि प्राप्नोति। तत्र केषांचिद् दर्शनं भवितव्यम् एव प्लत्ययते इति। प्रथमपक्षदर्शनाभिनिष्टास्तु प्रत्ययते इत्येव भवति इति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्य अयतेः प्रयोगम् एव न इच्छन्ति। निस् दुसित्येतयोस् तु रुत्वस्य असिद्धत्वाल् लत्वेन न एव भवितब्यम्। निरयणम्। दुरयणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

537 अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्. प्लायते. पलायते..

बालमनोरमा

166 उपसर्गस्याऽयतौ। अयताविति श्तिपा निर्देशः। `कृपो रो ल' इत्यतो रो ल इत्यनुवर्तते। तदाह–अयतिपरस्येत्यादिना। प्लायत इति। प्र इत्युपसर्गः। प्लायत इति। परा इत्याकारान्त उपसर्गः। ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह- –निस्दुसोरिति। तर्हि निलयते दुलयत इति कथमित्यत आह–निर्दुरोस्त्विति। एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः। तर्हि `प्रत्यय' इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह— प्रत्यय इति त्विति। प्रतिपूर्वकादिण्धातोरतच्प्रत्यये `प्रत्यय' इति रूपम्। अयतिपरत्वाऽभावान्न लत्वमित्यर्थः। अयधातुमादय `प्लत्यय' इति न, अनभिधानादिति कैयटः। कथमुदयतीति। उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः। अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः। प्रश्लिष्टस्येति। `इधातो'रिति शेषः। तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः। ज्ञापकादिति। `चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति। तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः। इदं तु भाष्ये न दृश्यते। वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति `ववये' इति रूपमित्यर्थः। णयधातुर्णोपदेश इति मत्वा आह–प्रणयत इति। `उपसर्गादसमासेऽपी'ति णत्वमिति भावः। दयांचक्र इति। `दयायासश्चे'त्याम्। ऊयांचक्र इति। इजादित्वादाम्। उन्दने चेति। क्लेदने चेत्यर्थः। स्फायी ओप्यायीति। ओदित्त्वम् `ओदितश्चे'ति निष्ठानत्वार्थम्। ईदित्त्वं तु `\उfffदाईदितो निष्ठाया'मितीण्निषेधार्थम्।

तत्त्वबोधिनी

139 अथ कथमिति। शानचा भाव्यमिति शङ्कितुराशयः। क्नूयी शब्दे शब्दे च। उन्दः क्लेदनम्।

Satishji's सूत्र-सूचिः

362) उपसर्गस्यायतौ 8-2-19

वृत्तिः अयतिपरस्‍योपसर्गस्‍य यो रेफस्‍तस्‍य लत्‍वं स्‍यात् । The रेफः of a उपसर्गः gets लकारः as the replacement when the उपसर्गः is followed by the धातुः √अय् (अयँ- [गतौ]१. ५४६)।

उदाहरणम् – प्लायते [उपसर्गः “प्र” + अयते]
अयते (√अय्, भ्वादि-गणः, अयँ- [गतौ] १. ५४६) लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
The form अयते is derived from the धातुः √अय् similar to एधते (√एध्-धातु:)।

Then with the उपसर्ग: “प्र” we get -
प्र + अयते 1-4-59 = प्रायते 6-1-101 = प्लायते 8-2-19

Similarly with the उपसर्ग: “परा” we get -
परा + अयते 1-4-59 = परायते 6-1-101 = पलायते 8-2-19