Table of Contents

<<1-1-71 —- 1-1-73>>

1-1-72 येन विधिस् तदन्तस्य

प्रथमावृत्तिः

TBD.

काशिका

येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायसय् ग्राहको भवति , स्वस्य च रूपस्य। एरच् 3-3-56, इवर्णान्तादच्प्रत्ययो भवतिचयः। जयः। अयः। ओरावश्यके 3-1-125, उवर्णान्ताद् ण्यद् भवति अवश्यलाव्यम्। अवश्यपाव्यम्। समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः। द्वितीयान्तं श्रितादिभिः सह समस्यते 2-1-24 कष्टश्रितः। इह मा भूत् कष्टं परमश्रित इति। प्रत्ययविधौ नडाऽदिभ्यः फक् 4-1-99, नडस्य अपत्यं नाडायनः। इह मा भूत् सूत्रनडस्य अपत्यं सौत्रनाडिः। किम् अविशेषेण? न इत्याह। उगिद्वर्णग्रहणवर्जम् इति वाच्यम्। उगितश्च 4-1-6 इति ङीप्प्रत्ययः तदन्तादपि भवति भवती, अतिभवती। वर्णग्रहनमत इञ् 4-1-95, दाक्षिः। प्लाक्षिः। यस्मिन् विधिस् तदादावल्ग्रहणे। अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम्। अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6-4-77 इति श्रियः। भ्रुवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

<< 1-1-681-4-110 >>
२६॰ येन विधिस्तदन्तस्य ॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य॥ समासप्रत्ययविधौ प्रतिषेधः (वा॰१२)। उगिद्वर्णग्रहणवर्जम् (वा॰१३)॥

बालमनोरमा

28 यच्छब्दस्वरूपमुपादाय यो विधिरारभ्यते स तस्य तदन्तस्य च भवतीत्येतद्वक्तुमाह- येन विधिः। विधीयत इति विधिः। `उपसर्गे घोः कि'रिति धाधातोर्भावे किप्रत्ययः। येनेति करणे तृतीया। शास्त्राकृद्विधाने कर्ता। धातोरित्यधिकृत्य #एरजिति इकारेण करणेन धातोरच्प्रत्ययं विधत्ते पाणिनिः। करणं च व्यापारवत्। एरजित्यत्र विशेषणस्य इकारस्य पाणिनिकर्तृकविधानक्रियायां करणस्य इतरव्यावर्तनमेव व्यापारः। ततश्च विशेषणमेवात्र येनेति तृतीयान्तेनोच्यते। स्वं रूपमित्यतः स्वमित्यनुवर्तते षष्ठ\उfffद्न्ततया च विपरिणम्यते। एवं च `विशेषणसमर्पकः शब्दस्तदन्तस्य स्वस्य च प्रत्यायक' इति फलति। तदाह–विशेषणमित्यादि। विशेषणसमर्पकः शब्दस्तदन्तस्य शब्दस्य, विशेषण समर्पकशब्दस्य च बोधकः स्यादिति यावत्। ततश्च एरजित्यत्र इकारान्ताद्धातोरच्प्रत्ययः स्यात्, इकाररूपाद्धातोश्चेति फलति। यथा-चयः, अयः। केचित्तु करणं कर्तृपरतन्त्रमिति तृतीयया पारतन्त्र्यं लक्ष्यते, तच्च शब्दानां विशेषणत्वेनेति विशेषणपरत्वं यच्छब्दस्य लभ्यत इत्याहुः। शब्देन्दुशेखरे दूषितम्। समासेति। वार्तिकमेतत्। समासविधौ प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः। तेन कृष्णं परमश्रित इत्यत्र `द्वितीया श्रिते'ति समासो न भवति। सूत्रनडस्य गोत्रापत्यं सौत्रनाडिः। `अत इञ्'। अनुशतिकादीनां चेत्युभयपदवृद्धिः। अत्र नडादिभ्यः फगिति फग्?नभवति। नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र `उगितश्चे'ति उगिदन्तात्प्रातिपदिकाद्विहितो ङीप् न स्यात्, प्रत्ययविधौ तदन्तविधेः प्रतिषेधात्। तथा दाक्षिरित्यत्र अत इञिति इञ्? न स्यात्। \र्\नस्यापत्यं इरित्यत्रैव इञ्स्यादित्यत आह–उगिदिति। इदमपि वार्तिकम्। `द्वितीयायां चे'ति वर्जयतेर्णमुल्। `उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्या समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवती'त्यर्थः। उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तादुगितश्चेति ङीप्, दाक्षिरित्यत्र अवर्णान्तादिञ् च सिध्यति।

तत्त्वबोधिनी

26 येन विधिः। `विधि'रित्यत्र `उपसर्गे' घोः किः' इति कर्मणि किः प्रत्ययः। `येने'ति करणे तृतीया, न तु कर्तरि। तस्याः कृद्योगषष्ट\उfffदा बाधात्। नच `उभयप्राप्तौ कर्मणी'ति नियमेन निर्वाहः, कर्मण उक्तत्वेनोभयप्राप्त्यभावात्। तथा चात्र करणे तृतीयैव। करणं च परतन्त्रं, कत्र्रधिष्ठितस्यैव करणत्वात्। एवं चेह तृतीयया पारतन्त्र्यं लक्ष्यते। नच `एर'जित्यादाविकारादीनां पारतन्त्र्यं धात्वादीनां च स्वातन्त्र्यं वास्यादीनामिव तक्षादीनामिव संभवति, किंतु वैवक्षिकम्। तेन विशेषणमप्रधानम्। तच्चात्मान्तरस्य संज्ञेति फलितं, तदेतदाह– विशेषणं तदन्तस्यैति। स्वस्य चेति। `स्व रूप'-मित्यनुवृत्तेरेतल्लभ्यते। `एरच्'। इकारान्तादिकाररूपाच्च धातोरच्। चयः, जयः, अयः। समासप्रत्ययविधावाते। कृष्णं श्रितः कृष्णश्रितः। [`द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः'। द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते वा तत्पुरुषः ]। नेह- कृष्णमुपश्रितः। `नडादिभ्यः फक्'। नडस्य गोत्रापत्यं नाडायनः। नेह- [सूत्रनडस्यापत्यं] सौत्रनाडिः। अनुशतिकादित्वादुभयमदवृद्धिः। \र्\नुगिद्वर्णेति। उगिद्वर्णग्रहणं वर्जयित्वा,-उगिद्वर्णग्रहणवर्जं। `द्वितीयायां चे'ति णमुल्। महान्तमतिक्रान्ता अतिमहती। महच्छब्दस्य गौरादित्वेऽप्युपसर्जने `षिद्गौरे'ति ङीषोऽप्रवृत्तेः `उगितश्चे'त्युगिदन्तान्ङीप्। `अत इञ्'। दाक्षिः। न चेह सामथ्र्यात्तदन्तविधिः , अस्यापत्यमिः काम इत्यत्र चरितार्थत्वात्। न चैवमिञो ञित्त्वं व्यर्थमिति वाच्यम्, `बाह्वादिभ्यश्चे'त्यत्र यथायथं वृध्द्याद्युदात्ताभ्यां चपितार्थत्वात्। नन्वेवमपि औपगविरित्यादावेव अत इञ्स्यान्नतु दाक्षिरित्यादौ, अकारस्येहानर्थकत्वादिति चेन्नः, वर्णग्रहणे अर्थवद्ग्रहणपरिभाषाया अप्रवृत्तेः।

Satishji's सूत्र-सूचिः

वृत्ति: विशेषणं तदन्तस्य सञ्ज्ञा स्यात् स्वस्य च रूपस्य। A qualifier by means of which an injunction is made stands for a term which ends in it as well as for itself.