Table of Contents

<<3-3-55 —- 3-3-57>>

3-3-56 एरच्

प्रथमावृत्तिः

TBD.

काशिका

भावे, अकर्तरि च कारके इति प्रकृतम् अनुवर्तते यावत् कृत्यल्युटो बहुलम् 3-3-113 इति। इवर्णान्ताद् धातोः भावे, अकर्तरि च कारके संज्ञायाम् अच् प्रत्ययो भवति। घञो ऽपवादः। चकारो विशेषणार्थः, अन्तः 6-2-143 था ऽथघञ्क्ताजबित्रकणाम् 6-2-144 इति। चयः। अयः। जयः। क्षयः। अज्विधौ भयादीनाम् उपसङ्ख्यानम्। नपुंसके क्तादिनिवृत्त्यर्थम्। भयम्। वर्षम्। जवसवौ छन्दसि वक्तव्यौ। ऊर्वोरस्तुम् मे जवः। पञ्चौदनः सवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1541 वर्षमिति। `वृषभो वर्षणा' दिति भाष्यप्रयोगात्तु ल्युडपि। वर्षणम्।

Satishji's सूत्र-सूचिः

TBD.