Table of Contents

<<1-1-72 —- 1-1-74>>

1-1-73 वृद्धिर् यस्य अचाम् आदिस् तद् वृद्धम्

प्रथमावृत्तिः

TBD.

काशिका

यस्य इति समुदाय उच्यते। अचां मद्ये यस्य वृद्धिसंज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसज्ञ्जं भवति। अचाम् इति जातौ बहुवचनम्। शालीयः। मालीयः। औपगवीयः। कापटवीयः। आदिः इति किम्? सभासन्नयते भवः साभासन्नयनः। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या। देवदत्तीयाः। दैवदत्ताः। गोत्रान्तादसमस्तवत्प्रत्य्त्यो भवतीति वक्तव्यम्। घृतप्रधनो रौढिः घृतरौढिः। तस्य छात्रा घृतरौढीयाः। ओदनप्रधानः पाणिनिः ओदनपाणिनिः। तस्य छात्रा ओदनपाणिनीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः। जिह्वाकात्यहरितकायवर्जम्। जैह्वाकाताः। हारितकाताः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1078 यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्..

बालमनोरमा

1316 वृद्धिर्यस्य। अचामिति बहुत्वमनेकत्वोपलक्षणम्। तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति। व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.