Table of Contents

<<3-1-124 —- 3-1-126>>

3-1-125 ओरावश्यके

प्रथमावृत्तिः

TBD.

काशिका

अवश्यं भावः आवश्यकम्। उवर्णान्ताद् धातोः ण्यत् प्रययो भवति आवश्यके द्योत्ये। यतो ऽपवादः। लाव्यम्। पाव्यम्। अवश्यके इति किम्? लव्यम्। आवश्यके द्योत्ये इति वेत्, स्वरसमासानुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यम् इति? नैष दोषः। मयूरव्यं सकादित्वात् समासः। उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

584 लाव्यमिति। `आवश्यके उपपपदे' इति व्याख्याने तु नेदं सिध्यतीति भावः। क्वचित्तु लाघवं प्रत्यनादराद्व्यतिसे इत्यादौ व्यतिशब्दवद्द्?योतितार्थस्याऽपि प्रयोगो दृश्यते। अवश्यलाव्यम्। अत्रोपपदसमासाऽसंभवेऽपि मयूरव्यंसकादेराकृतिगणत्वात्समासः।

Satishji's सूत्र-सूचिः

TBD.