TBD.
तस्य अपत्यम् इत्येव। अकारान्तात् प्रातिपदिकातिञ् प्रत्ययो भवति। अणो ऽपवादः। दक्षस्य अपत्यं दाक्षिः। तपरकरणं किम्? शुभंयाः, कीलालपाः इत्यतो मा भूत्। कथं प्रदीयतां दाशरथाय मैथिलि? शेषविवक्षया भविष्यति।
TBD.
1017 अपत्येर्ऽथे. दाक्षिः..
1079 अत इञ्। प्रातिपदिकादित्यधिकृतमता विशेष्यते, तदन्तविधिः। तदाह–अदन्तं यत्प्रातिपदिकमिति। `तस्यापत्य'मित्यनुवृत्तं `समर्थानां प्रथमाद्वे'ति च। ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धं। सुबन्तात्द्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तादिति लभ्यते। सुप्चेहोपस्थितत्वात्षष्ठ\उfffदेव विवक्षिता। तथा च षष्ठ\उfffद्न्तात्प्रातिपदिकादिति लभ्यते। यद्यपि प्रातिपदिकं न षष्ठ\उfffद्न्तं, प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात्। तथापि प्रातिपदिकप्रकृतिषष्ठ\उfffद्न्तादित्यर्थो विवक्षितः। तदाह– तत्प्रकृतिकात्षष्ठ\उfffद्न्तादिति। दाक्षिरिति। दक्षस्यापत्यमिति विग्रहः। इञ्। आदिवृद्धिः, `यस्येति चे'त्यकारलोपः। `प्रदीयतां दाशरथाय मैथिली'ति त्वार्षमिति `तस्यापत्य'मित्यत्र निरूपितम्। प्रातिपदिकग्रहणाऽननुवृत्तौ त्वदन्तात्षष्ठ\उfffद्न्तादिति लभ्येत। तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः।
903 अत इञ्। `घकालतने'ष्विति ज्ञापकात्सुबन्तादेव तद्धितोत्पत्तिरित्यभ्युपगमेऽप्यधिकृतप्रातिपदिकस्य न वैयथ्र्यं, किं तु प्रयोजनमस्तीति ध्वनयति—-अदन्तं यत्प्रातिपदिकमिति। `अत'इत्यस्य सुबन्तविसेषणत्वे तु दक्षयोरपत्यमित्यादिविवक्षायां दाक्षिरित्यादि न सिद्ध्येदिति भावः। तपरः किम्?। वि\उfffदापोऽपत्यं वै\उfffदापः। `प्रदीयतां दाशरथाये'त्यत्र तु `तस्येद'मित्यण्। अपत्यत्वविवक्षायां त्विञेव।
TBD.