Table of Contents

<<4-1-5 —- 4-1-7>>

4-1-6 उगितश् च

प्रथमावृत्तिः

TBD.

काशिका

उगिति यत्र सम्भवति यथाकथंचित् तदुगिच्छाब्दरूपं, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती। धातोरुगितः प्रतिषेधो वक्तव्यः। उखास्रत्। पर्णध्वत् ब्राह्मणी। अञ्चतेश्च उपसङ्ख्यानम्। प्राची। प्रतीची। उदीची।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1253 उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्. भवती. भवन्ती. पचन्ती. दीव्यन्ती..

बालमनोरमा

449 उगितश्च। उक् प्रत्याहारः। उक् इद्यस्य स उगित्।`उगित' इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः। `उगिद्वर्णग्रहणवर्ज'मित्युक्तेः `समासप्रत्ययविधौ' इति प्रतिषेधो न। पूर्वसूत्रान्ङीबित्यनुवर्तते। तदाह- उगिदन्तादिति। उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च। तत्र प्रातिपदिकमुदाहरति– भवतीति। सर्वादिगणे `भवतु' इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप्। ङपावितौ। `आच्छीनद्योर्नुम्'`शप्श्यनोर्नित्य'मिति नुम्न, शत्रन्तत्वाऽभावात्। `उगिदचा'मित्यपि न सर्वनामस्थानत्वाऽभावात्। अथ द्वितीयमुगितमुदाहरति-पचन्तीति। पचेर्लटः शतरि शषि पररूपे पचच्छब्दः। तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपि `शप्श्यनोर्नि'मिति नुमिति भावः। यदि तु सर्वादिगणे पठितं भवतु इत्येतत् `भातेर्डवतुः'इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम्। भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु, `शप्श्यनोर्नित्य'मिति नुमि भवन्तीति रूपम्। नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं, `व्यपदेशिवद्भावोऽप्रातिपदिकेने'ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः। `उगिदचामिति सूत्र' इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः। तेनेति। अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः। उखेति। उखा=कुण्डी। उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः। `पिठरं स्थाल्युखा कुण्ड'मित्यमरः। `रुआंसु ध्वंसु अवरुआंसने'। सुपीत्यनुवृत्तौ `क्विप्चे'ति क्विप्, उपपदसमासः, सुब्लुक्,`अनिदिता'मिति न लोपः, हल्ङ्यादिना सोर्लोपः, `वसुरुआंसु'इति दत्वमिति भावः। स्यादेवेति। `ङी'बिति शेषः। प्राचीति। प्रपूर्वादञ्चतेः `ऋत्विक' इत्यादिना क्विन्, `अनिदिता'मिति नलोपः। उगित्त्वान्ङीप्, `अचः'इत्यकारलोपे `चौ'इति दीर्घः।

तत्त्वबोधिनी

405 उगिच्छब्देन प्रातिपदिकं विशेष्यते, विशेषणेन तदन्तविधिः।न च प्रत्ययविधौ प्रतिषेधः शङ्क्यः, `अनुपसर्जना'दित्यनेन स्त्रीप्रत्ययेषु तदन्तविधिरस्तीति ज्ञापनात्, `उगिद्वर्णग्रहणवर्ज'मिति `येन विधि'रिति सूत्र एवोक्तत्वाच्चेत्याशयेनाह–उगिदन्तादिति। अत्रोगित्प्रतिपदिकं, प्रत्ययश्चेति द्विविधं संभवति। आद्ये उगिदन्ते–भवन्तं महान्तं चातिक्रान्तै अतिभवती अतिमहतीत्थदाहरणम्। सर्वादिगणे `भवतु'इति पाठाद्भवच्छब्दस्योगित्त्वव्यपदेशः। महच्छशब्दस्य तु शतृवद्भावात्। न चैवं `प्यपदेशिवद्भावोऽप्रातिपदिकेने'ति निषेधात्केवलाभ्यां भवन्महच्छब्दाभ्यां ङीम्न स्यादिति वाच्यम्। प्रातिपदिकाऽप्रातिपदिकसाधरण्येन शब्दमात्रमुगित्पदाभिधेयमुत्युक्तनिषेधाऽप्रवृत्तेरित्याशयेनोदाहरति—भवन्तीति। द्वितीयमुगिदन्तमुदाहरति–पचन्तीति। पचेर्लटः शतरि `कर्तरि शप्'। यदि तु सर्वादिगणे `भवतु'इति य उगित्पठितः सः `भातेर्डवतु'रिति व्युत्पाद्यते, तदा `भवती'ति द्वितीयोगिदन्तस्याप्युदाहरणं भवत्येव। शत्रन्तात्तु भवतेर्ङीपि `शप्शयनो'रिति नित्यो नुम्। भवन्ती। उखारुआदित्यादि। उखायाः रुआंसते, पर्णेभ्यो ध्वंसते। `रुआंसु ध्वंसु अव रुआंसने' `वस#उरुआंसु'इति दत्वम्। वक्तव्यम्। वनोर च। `व'न्निति प्रत्ययेन तदन्तं प्रातिपदिकं गृह्रते। वन्नन्तेन त्वधिकृत प्रातिपदिकविशेषणात्तदन्तविधिरित्याह–वन्नन्तात्तदन्ताच्चेति। `येन विधिस्तदन्तस्ये'त्यत्र `स्वं रूप'मिति सूत्रात्स्वमित्यनुवर्त्त्य स्वस्य चेति व्याख्यानादुभयं लभ्यत इथि भावः। यदि तु वन्नन्तमेव व्यपदेशिवद्भावेन वन्नन्तान्तमित्युच्यते, तर्हि `येन विधि'रित्यत्र `स्व'मित्यनुवर्त्त्य `स्वस्य चे'ति न व्याख्येयम्। न चात्र `व्यपदेशिवद्भावोऽप्रातिपदिकेने'ति निषेधः शङ्क्यः, तस्य प्रातिपदिकत्वाऽभावाच्चेत्याहुः। सामान्यग्रहममिति। सूत्रे `वन' इत्यनुबन्धरहितस्य ग्रहणात्तदनुबन्धपरिभाषा नोपतिष्ठत इति भावः। वन्ग्रहणे वन्नन्तं वन्नन्तान्तं च कथं लभ्यत इत्याशङ्कायामाह–प्रत्ययग्रहणे इत्यादि। तेनेति। वन्नन्तेनेत्यर्थः। तदन्तान्तमपिलभ्यत इति। `स्त्रिया'मित्यधिकारे `ग्रहण वता प्रातिपदिकेने'ति निषेधो न पर्वर्तते, `अमहत्पूर्वे'त्यादिज्ञापकागिति भावः। अन्ये त्वाहुः–वन्नन्तस्य वस्तुतः प्रातिपदकत्वेऽपि सूत्रे गृहीतस्य वन इत्यस्य प्रातिपदिकत्वं नास्तीत्युक्तत्वाद्ग्रहणवतेति निषेधशङ्कैव नास्तीति। सुत्वानमिति। `सुजयोर्ङ्वनिप्'। `अत्यादयः क्रान्ताद्यर्थे' इति समासः। अतिधीवरीति। दधातेः `अन्येभ्योऽपि दृश्यते'इति क्वनिप्। `घुमास्थे'तीत्त्वम्। भाष्ये तु ध्यायतेः क्वनपि संप्रसारणमिति स्थितम्। नस्य रेफादेशे कृतेऽप्येकदेशविकृतस्यानन्यत्वात् `अल्लोपरोऽनः'इति प्राप्नोति, अनो नकारान्तत्वविशेषणात्तु न भवतीति `\उfffदायुवमघोना'मित्यत्रैव व्युत्पादितम्। शर्वरिति। शृ?धातोः `अन्येभ्योऽपी'त्यनेनैव वनिप्। गुणे कृते रपरत्वे च हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावान्ङीब्रायोरत्र निषेधो न। वेति। `अन्यतरस्या'मिति योगविभागदिदं लभ्यते, नत्वपूर्वं वचनमिति वक्ष्यते। बहुधीवरीति। `बहवो धीवानो यस्या नगर्या'मिति विग्रहः। पक्षे डाविति। `डाबुभाभ्या'मिति सूत्रेण। तथाच द्विवचने `बहुधीवर्यौ'`बहुधीवानौ'`बहुधीवे\तिति रूपत्रयं भवतीति भावः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उगिदन्‍तात्‍प्रातिपदिकात्‍स्‍ित्रयां ङीप्‍स्‍यात् । A प्रातिपदिकम् which ends in a उगित् (which has a उक् letter – ‘उ’, ‘ऋ’, ‘ऌ’ – as a इत्) takes the ङीप् affix in the feminine gender.

उदाहरणम् – भवती ।

Consider the सर्वनाम-प्रातिपदिकम् ‘भवतुँ’। The ending उकार: is a इत् by 1-3-2 and takes लोप: by 1-3-9. Hence ‘भवतुँ’ is a उगित्।
स्त्रियाम् – In the feminine -
भवत् + ङीप् 4-1-6
= भवत् + ई 1-3-3, 1-3-8, 1-3-9
= भवती ।