Table of Contents

<<1-4-109 —- 1-1-1>>

1-4-110 विरामो ऽवसानम्

प्रथमावृत्तिः

TBD.

काशिका

विरतिः विरामः। विरम्यते ऽनेन इति वा विरामः। सो ऽवसानसंज्ञो भवति। दधिं। मधुं। वृक्षः। प्लक्षः। अवसानप्रदेशाः खरवसानयोर् विसर्जनीयः 8-3-15 इत्येवम् आदयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः। द्वित्तियो ऽध्ययः प्रथमः पादः

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

124 वर्णानामभावोऽवसानसंज्ञः स्यात्. रुत्वविसर्गौ. रामः..

सिद्धान्तकौमुदी

<< 1-1-721-4-109 >>
२७॰ विरामोऽवसानम् ॥ वर्णानामभावोऽवसानसंज्ञः स्यात्॥

बालमनोरमा

27 विरामोऽवसानम्। विरम्यते अस्मिन्निति विरामः। सामीपिकेऽधिकरणे घञ्। विरमणं- क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते। तथा च `यस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक' इत्यर्थः फलति। तदभिप्रेत्य व्याचष्टे–वर्णानामिति। यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम्। यद्वा वर्णानामुच्चारणाऽभावो विरामः। भावे घञ्। स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात्। अस्मिन् पक्षे `किञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान'मिति विवरणयोजना। तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तु `रेफे स्थानिनी'ति योज्यम्। खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते। द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम्।

तत्त्वबोधिनी

27 विरामोऽवसानम्। विरमणं विरामः। भांवेघञ्। शब्दानुसासनप्रस्तावादाह-वर्णानामिति। संज्ञाप्रदेशाः-वावसाने' इत्यादयः। अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव, यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम्। यद्वा विरम्यतेऽनेनेति विरामः, बाहुलकात्करणे घञ्। यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णोऽवसानसंज्ञ इत्यर्थः। अ\उfffद्स्मस्तु पक्षे `खरवसानयोः' इत्येकापि सप्तमी विषयभेदाद्भिद्यते-खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति।

Satishji's सूत्र-सूचिः

TBD.