Table of Contents

<<1-1-22 —- 1-1-24>>

1-1-23 बहुगणवतुडति सङ्ख्या

प्रथमावृत्तिः

TBD.

काशिका

बहु गण वतु इत्येत सङ्ख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर् वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासंज्ञा विधीयते। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम्। अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येशाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः। तद्धितार्थैति समासः। तत्र दिक्सङ्ख्ये संज्ञायाम् 2-1-50 इत्यनुवृत्तेस् ततः सङ्ख्यापूर्वस्य द्विगुसंज्ञायां शूर्पादञन्यतरस्याम् 5-1-26) इति अञ् ठञ् च। अध्यर्धपूर्वद्विगोर् लुगसंज्ञायाम् (*5,1.28 इति लुक्। अर्धपञ्चमकः। सङ्ख्याप्रदेशाःसङ्ख्या वंश्येन 2-1-19 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

186

बालमनोरमा

256 अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण। बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः। एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः। फलितमाह-एते इति। बह्वादय इत्यर्थः। बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते। न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात्। वतुडती प्रत्ययौ। संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात्। वतुरिह `यत्तदेतेभ्यः परिमाणे वतु'विति तद्धितप्रत्ययो गृह्रते, न तु `तेन तुल्यं क्रिया चेद्वति'रिति वतिरपि, उकारानुबन्धात्। डतिरपि `किमः सङ्ख्यापरिमाणे डति च ' इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात्। न तु भातेर्डवतुरिति विहितः कृदपि। ननु `सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु'जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात्। न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि, `कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः' इति न्यायात्। ततश्च `पञ्चकृत्वः' इत्यादि न स्यादिति चेन्न, `सङ्ख्याया अतिशदन्तायाः कनि'त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात्। नहि विंशतितिं?रशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति। नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात्। अत एव भाष्ये `एतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह' इत्युक्तं सङ्गच्छते इत्यस्तां तावत्।

तत्त्वबोधिनी

217 बहुगणवतु। बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्रते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात्। अत एव डतिरपि `किमः सङ्ख्यापरिमाणे डति चे'ति विहितस्तद्धित एव गृह्रते, `वतु'साहचर्याच्च. न तु `पातेर्डतिः'। यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते। सानुवन्धनिर्देशस्तु `व्राहृणबद्वसति'रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः। न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इति `पञ्चकृत्व'इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्; `सङ्ख्याया अतिशदन्तायाः क'न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः। नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-`अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे'त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति।

Satishji's सूत्र-सूचिः

100) बहु-गण-वतुँ-डति सङ्ख्या 1-1-23

वृत्ति: बहु गण वतुँ डति इत्येते संख्यासंज्ञा भवन्ति । The words बहु, गण and the words ending in the वतुँ and डति affixes get the designation संख्या.