Table of Contents

<<4-4-34 —- 4-4-36>>

4-4-35 पक्षिमत्स्यमृगान् हन्ति

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव। पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्ति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। स्वरूपस्य पर्यायाणां तद्विशेषाणाम् च ग्रहणम् इह इस्यते। पक्षिणो हन्ति पाक्षिकः। शाकुनिकः। मायूरिकः। तैत्तिरिकः। मत्स्य मात्स्यिकः। मैनिकः। शाफरिकः। शाकुलिकः। मृग मार्गिकः। हारिणिकः। सौकरिकः। सारङ्गिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1564 पाक्षिमत्स्यमृगान्हन्ति। अस्मिन्नर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्ताट्ठगित्यर्थः। पक्षिमत्स्यमृगशब्दैस्तत्तत्स्वरूपाणां, तत्तत्पर्यायाणां, तद्विशेषवाचिनां च ग्रहणमित्यर्थः, `स्वं रूप'मिति सूत्रभाष्ये तथोक्तेरिति भावः। मीनस्यैवेति। मत्स्यपर्यायेषु मीनस्यैव ग्रहणं, न त्वनिमिषादिशब्दानामित्यर्थः। इदमपि `स्वं रूप'मित्यत्र भाष्ये स्थितम्। पाक्षिक इति –स्वरूपस्योदाहरणम्। शाकुनिक इति– पक्षिपर्यायस्य। मायूरिक इति–पक्षिविशेषस्य। तथा मात्स्यिकः, मैनिकः, शाकलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम्। तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.