Table of Contents

<<4-2-32 —- 4-2-34>>

4-2-33 अग्नेर् ढक्

प्रथमावृत्तिः

TBD.

काशिका

अग्निशब्दाद् ढक् प्रत्ययो भवति सा अस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। अग्निर् देवता अस्य आग्नेयो ऽष्टाकपालः। प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग् वक्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1217 अग्नेर्ढक्। आग्नेयमिति। प्राग्दीव्यतीयेष्वर्थेष्वयम्, `सर्वत्राग्निकलिभ्या'मिति वचनात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.