Table of Contents

<<2-4-22 —- 2-4-24>>

2-4-23 सभा राजा ऽमनुस्यपूर्वा

प्रथमावृत्तिः

TBD.

काशिका

सभान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुस्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्मान् न भवति, राजसभा? पर्यायवचनस्य एव इष्यते। तदुक्तम् जित्पर्यायस्य एव राजाध्यर्थम् इति। अमनुष्यपूर्वा रक्षःसभम्। पिशाचसभम्। इह कस्मान् न भवति, काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण् रक्षःपिशाचादिष्वेव वर्तते। राजा अमनुष्यपूर्वा इति किम्? देवदत्तसभा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

816 सभा। राजा च अमनुष्यश्च राजाऽमनुष्यौ, तौ पूर्वौ यस्याः सा-राजाऽमनुष्यपूर्वा इति विग्रहः। सभया तत्पुरुषविशेषणात्तदन्तविदिः। राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः। तदाह–राजपर्यायपूर्व इति। इनसभम् ई\उfffदारसभमिति। इनस्य ई\उfffदारस्य वा सभेति विग्रहः। इनेस्वरशब्दौ राजपर्यायाविति भावः। `भाष्यकृते'ति शेषः। `स्वं रूप'मिति सूत्रे `जित्पर्यायवचनस्यैव राजाद्यर्थ'मिति वार्तिकं भाष्ये पठितमिति भावः। राजसभेति। राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः। चन्द्रगुप्तसभेति। `चन्द्रगुप्त' इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः। नन्वमनुष्यपूर्वकत्वाद्देवसभेत्यादावपि स्यादित्यत आह–अमनुष्यशब्दो रूढ\उfffदेति। असुरशब्दो दैत्यानिवेति भावः।

तत्त्वबोधिनी

716 सभा। इनसभमित्यादि। इनशब्दोऽत्र राजपर्यायः, ई\उfffदारशब्दश्च। ननु `स्वं रूप'मिति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं, नपर्यायस्येत्यत आह– । निरासः। कथं तर्हि `नृपतिसभामगमन्न वेपमानः'इति कीचकवधे। अत्र केचित्–ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः। `अनञ्कर्मधारयः'इत्युक्तेर्न क्लीबत्वमित्याहुः। रक्षितस्त्वाह—गजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति।

Satishji's सूत्र-सूचिः

TBD.