Table of Contents

<<1-2-49 —- 1-2-51>>

1-2-50 इद्गोण्याः

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण लुकि प्राप्ते इकारो विधीयते। गोण्यास्तद्धितलुकि सति इकाराऽदेशो भवति। पञ्चभिर् गोणीभिः क्रीतः पटः पञ्चगोणिः। दशगोणिः। इतिति योगविभागः। पण्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवं विषय एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1680 इद्गोण्याः। लुकोऽपवाद इति। `लुक्तद्धितलुकी'ति प्राप्तस्येत्यर्थः। पञ्चगोणिरिति। आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः। नच उपसर्जनह्यस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावे `सुक्तद्धितलुकी'ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः। मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतु `देवदत्तेन क्रीत'मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

1299 लुकोऽपवाद इति। `लुक्ताद्धितलुकी'ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.