Table of Contents

<<7-3-51 —- 7-3-53>>

7-3-52 चजोः कु घिण्ण्यतोः

प्रथमावृत्तिः

TBD.

काशिका

चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति पाकः। त्यागः। रागः। ण्यति पाक्यम्। वाक्यम्। रेक्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

784 चजोः कुत्वं स्यात् घिति ण्यति च परे..

बालमनोरमा

684 चजोः कु। `कु' इत्यविभक्तिको निर्देशः। चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न, `तेन रक्तं रागा'दित घञि जस्य कुत्वनिर्देशात्।

तत्त्वबोधिनी

567 चजोः। यथासङ्ख्यं नेह विवक्षितं, `तेन रक्तं रागात्' इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं। तदालोच्याह– चस्य जस्य चेत्यादि। घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः चजोः कुत्वं स्याद् घिति ण्यति च परे। A चकारः or a जकारः is replaced by a letter of the क-वर्गः when followed by either -
i) an affix which has घकारः as a इत् or
ii) the affix ण्यत्।

Example continued from 3-1-124

भोज् + य
= भोग्य 7-3-52

“भोग्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.