TBD.
एङः पदान्तादति 6-1-109 इत्यतः पदग्रहणम् अनुवर्तते। दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः। निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति। तपरकरनम् ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति। अत्र हि परत्वातूट्ः प्राप्नोति। पदस्य इति किम्? दिवौ। दिवः।
TBD.
266 दिवोऽन्तादेश उकारः स्यात् पदान्ते. सुद्युभ्यामित्यादि.. चत्वारः. चतुरः. चतुर्भिः. चतुर्भ्यः..
भ्यामादौ हलि विशेषमाह–दिव उत्। अन्तादेश इति। अलोऽन्त्यसूत्रलभ्यम्। पदान्त इति। पदान्तादित्युनुवृत्तं सप्तम्या विपरिणम्यत इति भावः। उतस्तपरत्वं तु `भाव्यमान उकारः सवर्णग्राहकः' इति ज्ञापनार्थमिति `तित्स्वरित'मिति सूत्रे भाष्ये स्पष्टम्। सुद्युभ्यामिति। वकारस्य उत्त्वे इकारस्य यण्। अत्र उकारस्य `हल' इति दीर्घस्तु न, वकारस्थाने उकारस्य संप्रसारणत्वाऽनवसायात्, संप्रसारणशब्देन विहितस्यैव इक्स्थानिकस्य यणः संप्रसारणत्वादिति `इग्यणः' इति सूत्रे शब्देन्दुशेखरे स्पष्टम्। इत्यादीति। सुदिवे। सुद्युभ्यः। सुदिवः सुदिवोः सुदिवाम्। सुद्युषु। इति वान्ताः। अथ रेफान्ताः। `चतेरुरन्' इत्युणादिषु चतुर्?शब्दो व्युत्पादितो नित्यं बहुवचनान्तः। चत्वार इति। जसि रूपम्। `चतुरनडुहोः' इत्युकारादाम्। उकारस्य यणिति भावः। चतुर इति। शसादौ सर्वनामस्थानत्वाऽभावान्नाम्। चतुर् आमिति स्थिते ह्यस्वाद्यन्तत्वाऽभावान्नुट\उfffद्प्राप्ते–।
297 दिव उत्। तपरकरणमिह `द्युभ्या'मित्यादावुकारस्य संप्रसारणत्वात् `हलः'इति दीर्घे प्राप्ते तन्निवारणायेत्याहुः। इति वान्ताः। चत्वार इति। `चतेरुरन्'इत्युरन्प्रत्ययान्तश्चतुर्श ब्दः। ततो जसि `चतुरनडुहो'रित्याम्।